अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 29
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
अस्थि॑ कृ॒त्वा स॒मिधं॒ तद॒ष्टापो॑ असादयन्। रेतः॑ कृत्वाज्यं॑ दे॒वाः पुरु॑ष॒मावि॑शन् ॥
स्वर सहित पद पाठअस्थि॑ । कृ॒त्वा । स॒म्ऽइध॑म् । तत् । अ॒ष्ट । आप॑: । अ॒सा॒द॒य॒न् । रेत॑: । कृ॒त्वा । आज्य॑म् । दे॒वा: । पुरु॑षम् । आ । अ॒वि॒श॒न् ॥१०.२९॥
स्वर रहित मन्त्र
अस्थि कृत्वा समिधं तदष्टापो असादयन्। रेतः कृत्वाज्यं देवाः पुरुषमाविशन् ॥
स्वर रहित पद पाठअस्थि । कृत्वा । सम्ऽइधम् । तत् । अष्ट । आप: । असादयन् । रेत: । कृत्वा । आज्यम् । देवा: । पुरुषम् । आ । अविशन् ॥१०.२९॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 29
Subject - Constitution of Man
Meaning -
Having made the bones as fuel wood for fire, the divinities placed eight orders of water in the body, and having made the vital fluid as ghrta for the fire, they entered Purusha for self-fulfilment through the human yajna of creative existence.