अथर्ववेद - काण्ड 2/ सूक्त 10/ मन्त्र 7
सूक्त - भृग्वङ्गिराः
देवता - निर्ऋतिः
छन्दः - सप्तापदा धृतिः
सूक्तम् - पाशमोचन सूक्त
अहा॒ अरा॑ति॒मवि॑दः स्यो॒नमप्य॑भूर्भ॒द्रे सु॑कृ॒तस्य॑ लो॒के। ए॒वाहं त्वां क्षे॑त्रि॒यान्निरृ॑त्या जामिशं॒साद्द्रु॒हो मु॑ञ्चामि॒ वरु॑णस्य॒ पाशा॑त्। अ॑ना॒गसं॒ ब्रह्म॑णा त्वा कृणोमि शि॒वे ते॒ द्यावा॑पृथि॒वी उ॒भे स्ता॑म् ॥
स्वर सहित पद पाठअहा॑: । अरा॑तिम् । अवि॑द: । स्यो॒नम् । अपि॑ । अ॒भू॒: । भ॒द्रे । सु॒ऽकृ॒तस्य॑ । लो॒के । ए॒व । अ॒हम् । त्वाम् । क्षे॒त्रि॒यात् । नि:ऽऋ॑त्या: । जा॒मि॒ऽशं॒सात् । द्रु॒ह: । मु॒ञ्चा॒मि॒ । वरु॑णस्य । पाशा॑त् । अ॒ना॒गस॑म् । ब्रह्म॑णा । त्वा॒ । कृ॒णो॒मि॒ । शि॒वे इति॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । उ॒भे इति॑ । स्ता॒म् ॥१०.७॥
स्वर रहित मन्त्र
अहा अरातिमविदः स्योनमप्यभूर्भद्रे सुकृतस्य लोके। एवाहं त्वां क्षेत्रियान्निरृत्या जामिशंसाद्द्रुहो मुञ्चामि वरुणस्य पाशात्। अनागसं ब्रह्मणा त्वा कृणोमि शिवे ते द्यावापृथिवी उभे स्ताम् ॥
स्वर रहित पद पाठअहा: । अरातिम् । अविद: । स्योनम् । अपि । अभू: । भद्रे । सुऽकृतस्य । लोके । एव । अहम् । त्वाम् । क्षेत्रियात् । नि:ऽऋत्या: । जामिऽशंसात् । द्रुह: । मुञ्चामि । वरुणस्य । पाशात् । अनागसम् । ब्रह्मणा । त्वा । कृणोमि । शिवे इति । ते । द्यावापृथिवी इति । उभे इति । स्ताम् ॥१०.७॥
अथर्ववेद - काण्ड » 2; सूक्त » 10; मन्त्र » 7
Subject - Pasha-mochana :
Meaning -
By treatment, counsel and prayer, you are free from disease and adversity. You have gained health of body, peace of mind and security for a full long age of good health and peace. You are thus established in the weal and well being of this beautiful world of gracious God. With this benediction and prayer I free you from disease, adversity, hate and jealousy of equals’ rivalry and release you blameless and free from sin and disease by Veda and pray may both heaven and earth be good and kind to you.