अथर्ववेद - काण्ड 3/ सूक्त 11/ मन्त्र 6
सूक्त - ब्रह्मा, भृग्वङ्गिराः
देवता - इन्द्राग्नी, आयुः, यक्ष्मनाशनम्
छन्दः - अनुष्टुप्
सूक्तम् - दीर्घायुप्राप्ति सूक्त
इ॒हैव स्तं॑ प्राणापानौ॒ माप॑ गातमि॒तो यु॒वम्। शरी॑रम॒स्याङ्गा॑नि ज॒रसे॑ वहतं॒ पुनः॑ ॥
स्वर सहित पद पाठइ॒ह । ए॒व । स्त॒म् । प्रा॒णा॒पा॒नौ॒ । मा । अप॑ । गा॒त॒म् । इ॒त: । यु॒वम् । शरी॑रम् । अ॒स्य॒ । अङ्गा॑नि । ज॒रसे॑ । व॒ह॒त॒म् । पुन॑: ॥११.६॥
स्वर रहित मन्त्र
इहैव स्तं प्राणापानौ माप गातमितो युवम्। शरीरमस्याङ्गानि जरसे वहतं पुनः ॥
स्वर रहित पद पाठइह । एव । स्तम् । प्राणापानौ । मा । अप । गातम् । इत: । युवम् । शरीरम् । अस्य । अङ्गानि । जरसे । वहतम् । पुन: ॥११.६॥
अथर्ववेद - काण्ड » 3; सूक्त » 11; मन्त्र » 6
Subject - Long Life and Yakshma Cure
Meaning -
Let prana and apana stay strong here. They must not go away from this youth. Let them sustain and strengthen his parts of the body system and, further, conduct him to live his full age of good health till fulfilment.