अथर्ववेद - काण्ड 7/ सूक्त 70/ मन्त्र 4
अपा॑ञ्चौ त उ॒भौ बा॒हू अपि॑ नह्याम्या॒स्यम्। अ॒ग्नेर्दे॒वस्य॑ म॒न्युना॒ तेन॑ तेऽवधिषं ह॒विः ॥
स्वर सहित पद पाठअपा॑ञ्चौ । ते॒ । उ॒भौ । बा॒हू इति॑ । अपि॑ । न॒ह्या॒मि॒ । आ॒स्य᳡म् । अ॒ग्ने: । दे॒वस्य॑ । म॒न्युना॑ । तेन॑ । ते॒ । अ॒व॒धि॒ष॒म् । ह॒वि: ॥७३.४॥
स्वर रहित मन्त्र
अपाञ्चौ त उभौ बाहू अपि नह्याम्यास्यम्। अग्नेर्देवस्य मन्युना तेन तेऽवधिषं हविः ॥
स्वर रहित पद पाठअपाञ्चौ । ते । उभौ । बाहू इति । अपि । नह्यामि । आस्यम् । अग्ने: । देवस्य । मन्युना । तेन । ते । अवधिषम् । हवि: ॥७३.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 70; मन्त्र » 4
Subject - Nip the Enemy
Meaning -
I nail those two columns of your army already reverted and retreated, and thus I seal your advance also. It is by the force and terror of brilliant fire power that I destroy your force and the entire infrastructure.