Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 5/ मन्त्र 30
    ऋषिः - मधुच्छन्दा ऋषिः देवता - ईश्वरसभाध्यक्षौ देवते छन्दः - आर्ची उष्णिक् स्वरः - ऋषभः
    0

    इन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वोऽसि ऐ॒न्द्रम॑सि वैश्वदे॒वम॑सि॥३०॥

    स्वर सहित पद पाठ

    इन्द्र॑स्य। स्यूः। अ॒सि॒। इन्द्र॑स्य। ध्रु॒वः। अ॒सि॒। ऐ॒न्द्रम्। अ॒सि॒। वै॒श्व॒दे॒वमिति॑ वैश्वऽदे॒वम्। अ॒सि॒ ॥३०॥


    स्वर रहित मन्त्र

    इन्द्रस्य स्यूरसीन्द्रस्य धु्रवोसि ऐन्द्रमसि वैश्वदेवमसि ॥


    स्वर रहित पद पाठ

    इन्द्रस्य। स्यूः। असि। इन्द्रस्य। ध्रुवः। असि। ऐन्द्रम्। असि। वैश्वदेवमिति वैश्वऽदेवम्। असि॥३०॥

    यजुर्वेद - अध्याय » 5; मन्त्र » 30
    Acknowledgment

    सपदार्थान्वयः - हे जगदीश्वर! यथा वैश्वदेवम्=अन्तरिक्षं यथा विश्वेषां देवानामिदन्तरिक्षमधिकरणं तथा [असि]=अस्ति, तथा त्वमैन्द्रं=परमैश्वर्यस्याधिकरणम् इन्द्रस्य=परमैश्वर्यस्येदमधिकरणम् असि। अत एव सर्वेषामस्मदादीनामिन्द्रस्य=परमैश्वर्यस्य स्यूःयः सीवयति=सह योजयति सः असि भवसि । इन्द्रस्य= सूर्यादिलोकस्य सूर्यादे: ध्रुवः निश्चलः=निश्चलकर्त्ताअसि॥ [सभाध्यक्षः] हे सभाध्यक्ष! यथा वैश्वदेवम्=अन्तरिक्षं यथा विश्वेषां देवानामिदमन्तरिक्षमधिकरणं तथा [असि]=अस्ति, तथा त्वमैन्द्रं परमैश्वर्यस्याधिकरणम् इन्द्रस्य=परमैश्वर्यस्येदमधिकरणम् असि। अत एव सर्वेषामस्मदादीनामिन्द्रस्य=परमैश्वर्यस्य स्यूः यः सीवयति=सह योजयति सःअसि भवसि, इन्द्रस्य=राज्यस्य (राज्यस्य) ध्रुवः=निश्चलो=निश्चलकर्त्ताअसि ॥ ५ । ३० ।। [ हे जगदीश्वर! सभाध्यक्ष वा यथा........त्वमैन्द्रं=परमैश्वर्यस्याधिकरणमस्ति, अतएव सर्वेषामस्मदादीनामिन्द्रस्य=परमैश्वर्यस्य स्यूरसि]

    पदार्थः -
    (इन्द्रस्य) परमैश्वर्यस्य (स्यूः) यः सीवयति=सह योजयति सः (असि) भवसि (इन्द्रस्य) सूर्य्यादे राज्यस्य वा (ध्रुवः) निश्चलो=निश्चलकर्त्ता (असि) (ऐन्द्रम्) इन्द्रस्य=परमैश्वर्यस्येदमधिकरणम् (असि) (वैश्वदेवम्) यथा विश्वेषां देवानामिदमन्तरिक्षमधिकरणं तथा (असि) ।। अयं मन्त्रः शत० ३। ६।१ । २५-२६ व्याख्यातः ॥ ३०॥ [ईश्वरः]

    भावार्थः - अत्र श्लेषोपमालङ्काराः॥ यथा सकलैश्वर्याधिष्ठानमीश्वरोऽस्ति तथा सभाध्यक्षादिभिरपि भवितव्यम् ।। ५ । ३० ।।

    विशेषः - मधुच्छन्दाः। ईश्वरसभाध्यक्षौ=ईश्वरः सभाध्यक्षश्च। आर्च्युष्णिक्। ऋषभः॥

    इस भाष्य को एडिट करें
    Top