यजुर्वेद - अध्याय 5/ मन्त्र 22
ऋषिः - औतथ्यो दीर्घतमा ऋषिः
देवता - यज्ञो देवता
छन्दः - साम्नी पङ्क्ति,भूरिक् आर्षी बृहती,
स्वरः - पञ्चमः
0
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम्। आद॑दे॒ नार्य॑सी॒दम॒हꣳ रक्ष॑सां ग्री॒वाऽअपि॑ कृन्तामि। बृ॒हन्न॑सि बृ॒हद्र॑वा बृह॒तीमिन्द्रा॑य॒ वाचं॑ वद॥२२॥
स्वर सहित पद पाठदे॒वस्य॑। त्वा॒। स॒वि॒तुः। प्र॒स॒व इति॑ प्रऽस॒वे। अ॒श्विनोः॑। बा॒हुभ्या॒मिति॑ बा॒हुऽभ्या॑म्। पू॒ष्णः। हस्ता॑भ्यामिति॒ हस्ता॑ऽभ्याम्। आद॑दे। नारी॑। अ॒सि॒। इ॒दम्। अ॒हम्। रक्ष॑साम्। ग्री॒वाः। अपि॑। कृ॒न्ता॒मि॒। बृ॒हन्। अ॒सि॒। बृ॒हद्र॑वा॒ इति॑ बृ॒हत्ऽर॑वाः। बृ॒ह॒तीम्। इन्द्रा॑य। वाच॑म्। व॒द॒ ॥२२॥
स्वर रहित मन्त्र
देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्याम्पूष्णो हस्ताभ्याम् । आददे नार्यसीदमहँ रक्षसाङ्ग्रीवा अपिकृन्तामि । बृहन्नसि बृहद्रवा बृहतीमिन्द्राय वाचँ वद ॥
स्वर रहित पद पाठ
देवस्य। त्वा। सवितुः। प्रसव इति प्रऽसवे। अश्विनोः। बाहुभ्यामिति बाहुऽभ्याम्। पूष्णः। हस्ताभ्यामिति हस्ताऽभ्याम्। आददे। नारी। असि। इदम्। अहम्। रक्षसाम्। ग्रीवाः। अपि। कृन्तामि। बृहन्। असि। बृहद्रवा इति बृहत्ऽरवाः। बृहतीम्। इन्द्राय। वाचम्। वद॥२२॥
विषयः - पुनरयं यज्ञः किमर्थः कर्त्तव्य इत्युपदिश्यते।।
सपदार्थान्वयः - हे मनुष्य ! यथाऽहंदेवस्य सर्वप्रकाशकस्यानन्दप्रदेश्वरस्य सवितुः सकलस्य जगत उत्पादकस्य प्रसवे यथासृष्टौ अश्विनोः प्राणापानयोरध्वर्य्योर्वायथाबाहुभ्यां यथाबलवीर्याभ्यां पूष्णः पुष्टिकारिकायाः पृथिव्याः यथाहस्ताभ्यां यथाऽऽनन्दप्रदाभ्यां धारणाकर्षणाभ्यां यं यज्ञमाददे समन्तात् स्वीकरोमि त्वा=तं त्वमपि तथादत्स्व। यथाऽहं [नारी]=नारीं यज्ञक्रियां (नराणामियं क्रिया) इदं प्रत्यक्षं पालकं कर्म यज्ञानुष्ठानं कर्म चाददे स्वीकरोमि तथा त्वमपि आदत्स्व। यथाऽहं रक्षसां दुष्टस्वभावानां ग्रीवाः कण्ठान् कृन्तामि छिनद्मितथा त्वमपि कृन्त। यथा चाहमेतदनुष्ठानेन बृहद्रवाः यथा बृहच्छब्दवान् बृहन् वर्धमानो वर्धयन् भवामि तथा त्वमपि भव। यथा चाहमिन्द्राय परमैश्वर्यप्रापकाय बृहतीं महतीं वाचं वाणींवदामि तथा चैतां त्वमपि वद उपदिश ।। ५ । २२ ।। [हे मनुष्य! यथाऽहं देवस्य.......प्रसवे......यषं यज्ञमाददे त्वा =तं त्वमपि तथादत्स्व.....]
पदार्थः -
(देवस्य) सर्वप्रकाशकस्यानन्दप्रदेश्वरस्य (त्वा) तम् (सवितुः) सकलस्य जगत उत्पादकस्य (प्रसवे) यथा सृष्टौ (अश्विनोः) प्राणापानयोरध्वर्य्योर्वा (बाहुभ्याम्) यथाबलवीर्याभ्याम् (पूष्णः) पुष्टिकारिकायाः। पृथिव्याः । पूषेति पृथिवी नामसु पठितम् ॥ निघं० १। १ ॥ (हस्ताभ्याम्) यथाऽऽनन्दप्रदाभ्यां धारणाकर्षणाभ्याम् (आ) समन्तात् (ददे) स्वीकरोमि (नारी) नराणामियं क्रिया (असि) अस्ति वा। अत्र सर्वत्र व्यत्ययः (इदम्) प्रत्यक्षं पालकं कर्म (अहम्) (रक्षसाम्) दुष्टस्वभावानाम् (ग्रीवा:) कण्ठान् (अपि) निश्चये (कृन्तामि) छिनद्मि (बृहन्) वर्धमानो वर्धयन् (असि) अस्ति वा (बृहद्रवाः) यथा बृहच्छन्दवान् (बृहतीम्) महतीम् (इन्द्राय) परमैश्वर्यप्रापकाय (वाचम्) वाणीम् (वद) उपदिश ॥ अयं मंत्रः शत० ३।५।४ । ४-८ व्याख्यातः ॥ २२ ॥
भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः॥ यथा विद्वद्भिरीश्वरसृष्टौ विद्यया पदार्थान् सुपरीक्ष्य कार्येषूपयुज्य सुखानि प्राप्यन्ते, तथैव मनुष्यैरिदमनुष्ठाय सुखानि प्रापणीयानि ॥ ५ । २२ ।।
विशेषः - औतथ्यो दीर्घतमाः। यज्ञः=स्पष्टम् ॥ पूर्वार्द्धस्य साम्नी पंक्तिः। पंचमः। आदद इत्युत्तरस्य भुरिगार्षी बृहती। मध्यमः ।।
इस भाष्य को एडिट करेंAcknowledgment
Book Scanning By:
Sri Durga Prasad Agarwal
Typing By:
N/A
Conversion to Unicode/OCR By:
Dr. Naresh Kumar Dhiman (Chair Professor, MDS University, Ajmer)
Donation for Typing/OCR By:
N/A
First Proofing By:
Acharya Chandra Dutta Sharma
Second Proofing By:
Pending
Third Proofing By:
Pending
Donation for Proofing By:
N/A
Databasing By:
Sri Jitendra Bansal
Websiting By:
Sri Raj Kumar Arya
Donation For Websiting By:
Shri Virendra Agarwal
Co-ordination By:
Sri Virendra Agarwal