Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 9/ मन्त्र 14
    ऋषिः - दधिक्रावा ऋषिः देवता - बृहस्पतिर्देवता छन्दः - जगती, स्वरः - निषादः
    0

    ए॒ष स्य वा॒ज क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां॑ ब॒द्धोऽअ॑पिक॒क्षऽआ॒सनि॑। क्रतुं॑ दधि॒क्राऽअनु॑ स॒ꣳसनि॑ष्यदत् प॒थामङ्का॒स्यन्वा॒पनी॑फण॒त् स्वाहा॑॥१४॥

    स्वर सहित पद पाठ

    ए॒षः। स्यः। वा॒जी। क्षि॒प॒णिम्। तु॒र॒ण्य॒ति॒। ग्री॒वाया॑म्। ब॒द्धः। अ॒पि॒क॒क्ष इत्य॑पिऽक॒क्षे। आ॒सनि॑। क्रतु॑म्। द॒धि॒क्रा इति॑ दधि॒ऽक्राः। अनु॑। स॒ꣳसनि॑ष्यदत्। स॒ꣳसनि॑स्यद॒दिति॑ स॒म्ऽसनि॑स्यदत्। प॒थाम्। अङ्का॑सि। अनु॑। आ॒पनी॑फण॒दित्या॒ऽपनी॑फणत्। स्वाहा॑ ॥१४॥


    स्वर रहित मन्त्र

    एष स्य वाजी क्षिपणिन्तुरण्यति ग्रीवायाम्बद्धो अपिकक्षऽआसनि । क्रतुन्दधिक्राऽअनु सँसनिष्यदत्पथामङ्गाँस्यन्वापनीपणत्स्वाहा ॥


    स्वर रहित पद पाठ

    एषः। स्यः। वाजी। क्षिपणिम्। तुरण्यति। ग्रीवायाम्। बद्धः। अपिकक्ष इत्यपिऽकक्षे। आसनि। क्रतुम्। दधिक्रा इति दधिऽक्राः। अनु। सꣳसनिष्यदत्। सꣳसनिस्यददिति सम्ऽसनिस्यदत। पथाम्। अङ्कासि। अनु। आपनीफणदित्याऽपनीफणत्। स्वाहा॥१४॥

    यजुर्वेद - अध्याय » 9; मन्त्र » 14
    Acknowledgment

    सपदार्थान्वयः - यथैषः वीर: स्यः=असौ वाजी वेगवान् आसनि आस्ये ग्रीवायां कण्ठे बद्धः क्रतुं कर्म [अनु] संसनिष्यदत् अतिशयेनप्रस्रवन् अपिकक्षे निश्चिप्तपार्श्वावयवे पथां मार्गाणाम् अङ्कांसि लक्षणानि अनु-आ-पनीफणत् अतिशयेन गच्छन् दधिक्राः यो दधीन्=धारकान् क्राम्यति स दधिक्राः=अश्वः क्षिपणिं दूरे क्षिपन्ति शत्रून् यया तां सेनां [तुरण्यति]=गच्छति त्वस्यति, तथा सेनेशः स्वाहा सत्यया वाचा स्वसेनां पराक्रमयेत् ।। ९ । १४ ।। [यथैष:.....वाजी......क्षिपणिं [तुरण्यति]=गच्छति तथा सेनेशः स्वाहा स्वसेनां पराक्रमयेत्]

    पदार्थः -
    (एषः) वीर: (स्य) असौ । अत्र स्यश्छन्दसि बहुलम्।। अ० ६ । १ । १३३ ।। इति सोर्लोपः (वाजी) वेगवान् (क्षिपणिम्) दूरे क्षिपन्ति शत्रून्यथा तां सेनाम् (तुरण्यति) त्वरयति (ग्रीवायाम्) कण्ठे (बद्ध:) (अपिकक्षे) निश्चितपार्श्वावयवे (आसनि) आस्ये (क्रतुम्) कर्म (दधिक्राः) यो दधीन्=धारकान् क्राम्यति स दधिक्राः अश्वः । दधिक्रा इत्यश्वनामसु पठितम् ॥ निघं० १ ॥ १४ ॥ (अनु) (संसनिष्यदत्) अतिशयेन प्रस्रवन् । अत्र स्यन्दू धातोर्यङ्लुक् शतृप्रत्ययेऽभ्यासस्य निक् निपात्यते (पथाम्) मार्गाणाम् (अंकांसि) लक्षणानि (अनु) (आपनीफणत्) अतिशयेन गच्छन् (स्वाहा) सत्यया वाचा ॥ अयं मन्त्रः शत० ५ । १ । ५ । १९ व्याख्यातः ॥ १४ ॥

    भावार्थः - अत्र वाचकलुप्तोपमालङ्कारः ॥ सेनापतिरक्षिता वीरा अश्ववद्धावन्तः सद्यः शत्रून् हन्तुं शक्नुवन्ति, सेनापतिः सुकर्मकारिभिः सुशिक्षितैर्वीरैः सहैव युद्ध्यमानः सन् प्रशंसितोविजयते; नान्यथा ॥ ९। १४ ॥

    विशेषः - दधिक्रावा: । बृहस्पतिः=सुशिक्षितः सेनापतिः। जगती । निषादः ॥

    इस भाष्य को एडिट करें
    Top