अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 17
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
सर्वे॑ दे॒वा उपा॑शिक्ष॒न्तद॑जानाद्व॒धूः स॒ती। ई॒शा वश॑स्य॒ या जा॒या सास्मि॒न्वर्ण॒माभ॑रत् ॥
स्वर सहित पद पाठसर्वे॑ । दे॒वा: । उप॑ । अ॒शि॒क्ष॒न् । तत् । अ॒जा॒ना॒त् । व॒धू: । स॒ती । ई॒शा । वश॑स्य । या । जा॒या । सा । अ॒स्मि॒न् । वर्ण॑म् । आ । अ॒भ॒र॒त् ॥१०.१७॥
स्वर रहित मन्त्र
सर्वे देवा उपाशिक्षन्तदजानाद्वधूः सती। ईशा वशस्य या जाया सास्मिन्वर्णमाभरत् ॥
स्वर रहित पद पाठसर्वे । देवा: । उप । अशिक्षन् । तत् । अजानात् । वधू: । सती । ईशा । वशस्य । या । जाया । सा । अस्मिन् । वर्णम् । आ । अभरत् ॥१०.१७॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 17
Translation -
All the gods assisted (Upa-Siks); that she who was a woman knew; she who was wife of control (? vasa) mistress (isa), brought Color into it.