अथर्ववेद - काण्ड 11/ सूक्त 9/ मन्त्र 26
सूक्त - काङ्कायनः
देवता - अर्बुदिः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - शत्रुनिवारण सूक्त
तेषां॒ सर्वे॑षा॒मीशा॑ना॒ उत्ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम्। इ॒मं सं॑ग्रा॒मं सं॒जित्य॑ यथालो॒कं वि ति॑ष्ठध्वम् ॥
स्वर सहित पद पाठतेषा॑म् । सर्वे॑षाम् । ईशा॑ना: । उत् । ति॒ष्ठ॒त॒ । सम् । न॒ह्य॒ध्व॒म् । मित्रा॑: । देव॑ऽजना: । यू॒यम् । इ॒मम् । स॒म्ऽग्रा॒मम् । स॒म्ऽजित्य॑ । य॒था॒ऽलो॒कम् । वि । ति॒ष्ठ॒ध्व॒म् ॥११.२६॥
स्वर रहित मन्त्र
तेषां सर्वेषामीशाना उत्तिष्ठत सं नह्यध्वं मित्रा देवजना यूयम्। इमं संग्रामं संजित्य यथालोकं वि तिष्ठध्वम् ॥
स्वर रहित पद पाठतेषाम् । सर्वेषाम् । ईशाना: । उत् । तिष्ठत । सम् । नह्यध्वम् । मित्रा: । देवऽजना: । यूयम् । इमम् । सम्ऽग्रामम् । सम्ऽजित्य । यथाऽलोकम् । वि । तिष्ठध्वम् ॥११.२६॥
अथर्ववेद - काण्ड » 11; सूक्त » 9; मन्त्र » 26
Translation -
Masters (Isana) of them all, stand ye up, equip yourselves, ye friends, god-folks; having wholly conquered in this conflict, scatter ye to your several worlds.