अथर्ववेद - काण्ड 12/ सूक्त 3/ मन्त्र 6
सूक्त - यमः
देवता - स्वर्गः, ओदनः, अग्निः
छन्दः - त्रिष्टुप्
सूक्तम् - स्वर्गौदन सूक्त
उ॒भे नभ॑सी उ॒भयां॑श्च लो॒कान्ये यज्व॑नाम॒भिजि॑ताः स्व॒र्गाः। तेषां॒ ज्योति॑ष्मा॒न्मधु॑मा॒न्यो अग्रे॒ तस्मि॑न्पु॒त्रैर्ज॒रसि॒ सं श्र॑येथाम् ॥
स्वर सहित पद पाठउ॒भे इति॑ । नभ॑सी॒ इति॑ । उ॒भया॑न् । च॒ । लो॒कान् । ये । यज्व॑नाम् । अ॒भिऽजि॑ता: । स्व॒:ऽगा: । तेषा॑म् । ज्योति॑ष्मान् । मधु॑ऽमान् । य: । अग्रे॑ । तस्मि॑न् । पु॒त्रै: । ज॒रसि॑ । सम् । श्र॒ये॒था॒म् ॥३.६॥
स्वर रहित मन्त्र
उभे नभसी उभयांश्च लोकान्ये यज्वनामभिजिताः स्वर्गाः। तेषां ज्योतिष्मान्मधुमान्यो अग्रे तस्मिन्पुत्रैर्जरसि सं श्रयेथाम् ॥
स्वर रहित पद पाठउभे इति । नभसी इति । उभयान् । च । लोकान् । ये । यज्वनाम् । अभिऽजिता: । स्व:ऽगा: । तेषाम् । ज्योतिष्मान् । मधुऽमान् । य: । अग्रे । तस्मिन् । पुत्रै: । जरसि । सम् । श्रयेथाम् ॥३.६॥
अथर्ववेद - काण्ड » 12; सूक्त » 3; मन्त्र » 6
Translation -
Both firmaments, and worlds of both kinds, what heavengoing ones are conquered of the sacrificers which one of them is chiefly full of light, full of honey, in that combine ye with your sons in old age.