अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 14
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
यत्स॑मु॒द्रमनु॑ श्रि॒तं तत्सि॑षासति॒ सूर्यः॑। अध्वा॑स्य॒ वित॑तो म॒हान्पूर्व॒श्चाप॑रश्च॒ यः ॥
स्वर सहित पद पाठयत् । स॒मु॒द्रम् । अनु॑ । श्रि॒तम् । तत् । सि॒षा॒स॒ति॒ । सूर्य॑: । अध्वा॑ । अ॒स्य॒ । विऽत॑त: । म॒हान् । पूर्व॑: । च॒ । अप॑र: । च॒ । य: ॥2.१४॥
स्वर रहित मन्त्र
यत्समुद्रमनु श्रितं तत्सिषासति सूर्यः। अध्वास्य विततो महान्पूर्वश्चापरश्च यः ॥
स्वर रहित पद पाठयत् । समुद्रम् । अनु । श्रितम् । तत् । सिषासति । सूर्य: । अध्वा । अस्य । विऽतत: । महान् । पूर्व: । च । अपर: । च । य: ॥2.१४॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 14
Translation -
What is contained in the ocean, the sun wants to obtain. Its great path is stretched out far, that is eastward as well as westward.