अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 34
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - आर्षी पङ्क्तिः
सूक्तम् - अध्यात्म सूक्त
चि॒त्रं दे॒वानां॑ के॒तुरनी॑कं॒ ज्योति॑ष्मान्प्र॒दिशः॒ सूर्य॑ उ॒द्यन्। दि॑वाक॒रोऽति॑ द्यु॒म्नैस्तमां॑सि॒ विश्वा॑तारीद्दुरि॒तानि॑ शु॒क्रः ॥
स्वर सहित पद पाठचि॒त्रम् । दे॒वाना॑म् । के॒तु: । अनी॑कम् । ज्योति॑ष्मान् । प्र॒ऽदिश॑: । सूर्य॑: । उ॒त्ऽयन् । दि॒वा॒ऽक॒र: । अति॑ । द्यु॒म्नै: । तमां॑सि । विश्वा॑ । अ॒ता॒री॒त् । दु॒:ऽइ॒तानि॑ । शु॒क्र: ॥२.३४॥
स्वर रहित मन्त्र
चित्रं देवानां केतुरनीकं ज्योतिष्मान्प्रदिशः सूर्य उद्यन्। दिवाकरोऽति द्युम्नैस्तमांसि विश्वातारीद्दुरितानि शुक्रः ॥
स्वर रहित पद पाठचित्रम् । देवानाम् । केतु: । अनीकम् । ज्योतिष्मान् । प्रऽदिश: । सूर्य: । उत्ऽयन् । दिवाऽकर: । अति । द्युम्नै: । तमांसि । विश्वा । अतारीत् । दु:ऽइतानि । शुक्र: ॥२.३४॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 34
Translation -
Wonderous bright appearance of the bounties of Nature, emitting light, the sun has risen up the mid-regions. The radiant maker of day with this intense brilliance has overcome all the darknesses difficult to traverse.