अथर्ववेद - काण्ड 2/ सूक्त 12/ मन्त्र 3
सूक्त - भरद्वाजः
देवता - इन्द्रः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
इ॒दमि॑न्द्र शृणुहि सोमप॒ यत्त्वा॑ हृ॒दा शोच॑ता॒ जोह॑वीमि। वृ॒श्चामि॒ तं कुलि॑शेनेव वृ॒क्षं यो अ॒स्माकं॒ मन॑ इ॒दं हि॒नस्ति॑ ॥
स्वर सहित पद पाठइ॒दम् । इ॒न्द्र॒ । शृ॒णु॒हि॒ । सो॒म॒ऽप॒ । यत् । त्वा॒ । हृ॒दा । शोच॑ता । जोह॑वीमि । वृ॒श्चामि॑ । तम् । कुलि॑शेनऽइव । वृ॒क्षम् । य: । अ॒स्माक॑म् । मन॑: । इ॒दम् । हि॒नस्ति॑ ॥१२.३॥
स्वर रहित मन्त्र
इदमिन्द्र शृणुहि सोमप यत्त्वा हृदा शोचता जोहवीमि। वृश्चामि तं कुलिशेनेव वृक्षं यो अस्माकं मन इदं हिनस्ति ॥
स्वर रहित पद पाठइदम् । इन्द्र । शृणुहि । सोमऽप । यत् । त्वा । हृदा । शोचता । जोहवीमि । वृश्चामि । तम् । कुलिशेनऽइव । वृक्षम् । य: । अस्माकम् । मन: । इदम् । हिनस्ति ॥१२.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 12; मन्त्र » 3
Subject - Indra
Translation -
O resplendent Lord, enjoyer of devotional bliss. May you listen to me, who invokes you with an anguished mind. Whosoever obstructs our this righteous thought, him I cut down like a tree with an axe.