Loading...
अथर्ववेद > काण्ड 20 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 35/ मन्त्र 6
    सूक्त - नोधाः देवता - इन्द्रः छन्दः - त्रिष्टुप् सूक्तम् - सूक्त-३५

    अ॒स्मा इदु॒ त्वष्टा॑ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्यं रणा॑य। वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा॑नस्तुज॒ता कि॑ये॒धाः ॥

    स्वर सहित पद पाठ

    अ॒स्मै । इत् । ऊं॒ इति॑ । त्वष्टा॑ । त॒क्ष॒त् । वज्र॑म् । स्वप॑:ऽतमम् । स्व॒र्य॑म् । रणा॑य ॥ वृ॒त्रस्य॑ । चि॒त् । वि॒दत् । येन॑ । मर्म॑ । तु॒जन् । ईशा॑न: । तु॒ज॒ता । कि॒ये॒धा: ॥३५.६॥


    स्वर रहित मन्त्र

    अस्मा इदु त्वष्टा तक्षद्वज्रं स्वपस्तमं स्वर्यं रणाय। वृत्रस्य चिद्विदद्येन मर्म तुजन्नीशानस्तुजता कियेधाः ॥

    स्वर रहित पद पाठ

    अस्मै । इत् । ऊं इति । त्वष्टा । तक्षत् । वज्रम् । स्वप:ऽतमम् । स्वर्यम् । रणाय ॥ वृत्रस्य । चित् । विदत् । येन । मर्म । तुजन् । ईशान: । तुजता । कियेधा: ॥३५.६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 35; मन्त्र » 6

    Translation -
    For this Almighty Divinity alone Tvastar, the sun, for fighting the battle sharpens or fashions inflaming and most effective thunder through which destructive one becoming powerful and possessing various strength piercing the vital part of Vritya the cloud and obtain rain.

    इस भाष्य को एडिट करें
    Top