अथर्ववेद - काण्ड 20/ सूक्त 68/ मन्त्र 8
अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः। प्रावो॒ वाजे॑षु वा॒जिन॑म् ॥
स्वर सहित पद पाठअ॒स्य॒ । पी॒त्वा । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । घ॒न: । वृ॒त्राणा॑म् । अ॒भ॒व॒: । प्र ॥ आ॒व॒: । वाजे॑षु । वा॒जिन॑म् ॥६८.८॥
स्वर रहित मन्त्र
अस्य पीत्वा शतक्रतो घनो वृत्राणामभवः। प्रावो वाजेषु वाजिनम् ॥
स्वर रहित पद पाठअस्य । पीत्वा । शतक्रतो इति शतऽक्रतो । घन: । वृत्राणाम् । अभव: । प्र ॥ आव: । वाजेषु । वाजिनम् ॥६८.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 68; मन्त्र » 8
Translation -
O man of hundred powers, you drinking this good juice become the killer of wickeds and protect the man of venture and vigour in the battles.