अथर्ववेद - काण्ड 3/ सूक्त 30/ मन्त्र 1
सूक्त - अथर्वा
देवता - चन्द्रमाः, सांमनस्यम्
छन्दः - अनुष्टुप्
सूक्तम् - सांमनस्य सूक्त
सहृ॑दयं सांमन॒स्यमवि॑द्वेषं कृणोमि वः। अ॒न्यो अ॒न्यम॒भि ह॑र्यत व॒त्सं जा॒तमि॑वा॒घ्न्या ॥
स्वर सहित पद पाठसऽहृ॑दयम् । सा॒म्ऽम॒न॒स्यम् । अवि॑ऽद्वेषम् । कृ॒णो॒मि॒ । व॒: । अ॒न्य: । अ॒न्यम् । अ॒भि । ह॒र्य॒त॒ । व॒त्सम् । जा॒तम्ऽइ॑व । अ॒घ्न्या ॥३०.१॥
स्वर रहित मन्त्र
सहृदयं सांमनस्यमविद्वेषं कृणोमि वः। अन्यो अन्यमभि हर्यत वत्सं जातमिवाघ्न्या ॥
स्वर रहित पद पाठसऽहृदयम् । साम्ऽमनस्यम् । अविऽद्वेषम् । कृणोमि । व: । अन्य: । अन्यम् । अभि । हर्यत । वत्सम् । जातम्ऽइव । अघ्न्या ॥३०.१॥
अथर्ववेद - काण्ड » 3; सूक्त » 30; मन्त्र » 1
Subject - Sam-manasyam - Harmony
Translation -
I hereby bring about unity of your hearts and unity of minds, free from malice. May each one of you love the other as a cow loves its new-born calf.