अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 5
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - त्रिष्टुप्
सूक्तम् - दीर्घायु सूक्त
भूमि॑ष्ट्वा पातु॒ हरि॑तेन विश्व॒भृद॒ग्निः पि॑प॒र्त्वय॑सा स॒जोषाः॑। वी॒रुद्भि॑ष्टे॒ अर्जु॑नं संविदा॒नं दक्षं॑ दधातु सुमन॒स्यमा॑नम् ॥
स्वर सहित पद पाठभूमि॑: । त्वा॒ । पा॒तु॒। हरि॑तेन । वि॒श्व॒ऽभृत् । अ॒ग्नि: । पि॒प॒र्तु॒ । अय॑सा । स॒ऽजोषा॑: । वी॒रुत्ऽभि॑: । ते॒ । अर्जु॑नम् । स॒म्ऽवि॒दा॒नम् । दक्ष॑म् । द॒धा॒तु । सु॒ऽम॒न॒स्यमान॑म् ॥२८.५॥
स्वर रहित मन्त्र
भूमिष्ट्वा पातु हरितेन विश्वभृदग्निः पिपर्त्वयसा सजोषाः। वीरुद्भिष्टे अर्जुनं संविदानं दक्षं दधातु सुमनस्यमानम् ॥
स्वर रहित पद पाठभूमि: । त्वा । पातु। हरितेन । विश्वऽभृत् । अग्नि: । पिपर्तु । अयसा । सऽजोषा: । वीरुत्ऽभि: । ते । अर्जुनम् । सम्ऽविदानम् । दक्षम् । दधातु । सुऽमनस्यमानम् ॥२८.५॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 5
Translation -
May earth, the supporter of all protect you with the yellow (gold), may the sacrificial fire, in concord, enrich you with iron; and your white one (silver), obtained from the plants, put strength in you, giving pleasure.