अथर्ववेद - काण्ड 5/ सूक्त 28/ मन्त्र 6
सूक्त - अथर्वा
देवता - अग्न्यादयः
छन्दः - पञ्चपदातिशक्वरी
सूक्तम् - दीर्घायु सूक्त
त्रे॒धा जा॒तं जन्म॑ने॒दं हिर॑ण्यम॒ग्नेरेकं॑ प्रि॒यत॑मं बभूव॒ सोम॒स्यैकं॑ हिंसि॒तस्य॒ परा॑पतत्। अ॒पामेकं॑ वे॒धसां॒ रेत॑ आहु॒स्तत्ते॒ हिर॑ण्यं त्रि॒वृद॒स्त्वायु॑षे ॥
स्वर सहित पद पाठत्रे॒धा । जा॒तम् । जन्म॑ना । इ॒दम् । हिर॑ण्यम् । अ॒ग्ने: । एक॑म् । प्रि॒यऽत॑मम् । ब॒भू॒व॒ । सोम॑स्य । एक॑म् । हिं॒सि॒तस्य॑ । परा॑ । अ॒प॒त॒त् । अ॒पाम् । एक॑म् । वे॒धसा॑म् । रेत॑: ।आ॒हु॒: । तत् । ते॒ । हिर॑ण्यम् । त्रि॒ऽवृत् । अ॒स्तु॒ । आयु॑षे ॥२८.६॥
स्वर रहित मन्त्र
त्रेधा जातं जन्मनेदं हिरण्यमग्नेरेकं प्रियतमं बभूव सोमस्यैकं हिंसितस्य परापतत्। अपामेकं वेधसां रेत आहुस्तत्ते हिरण्यं त्रिवृदस्त्वायुषे ॥
स्वर रहित पद पाठत्रेधा । जातम् । जन्मना । इदम् । हिरण्यम् । अग्ने: । एकम् । प्रियऽतमम् । बभूव । सोमस्य । एकम् । हिंसितस्य । परा । अपतत् । अपाम् । एकम् । वेधसाम् । रेत: ।आहु: । तत् । ते । हिरण्यम् । त्रिऽवृत् । अस्तु । आयुषे ॥२८.६॥
अथर्ववेद - काण्ड » 5; सूक्त » 28; मन्त्र » 6
Translation -
This gold is of three types (tredhà jatam) due to methods of its production. One of them has become dearest to the fire; the other one comes out of the crushed soma plant; the other one is said to be the seed of pious waters (deeds); may that gold, worn three-fold, bring you a long life.