Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 111/ मन्त्र 1
सूक्त - अथर्वा
देवता - अग्निः
छन्दः - परानुष्टुप्त्रिष्टुप्
सूक्तम् - उन्मत्ततामोचन सूक्त
इ॒मं मे॑ अग्ने॒ पुरु॑षं मुमुग्ध्य॒यं यो ब॒द्धः सुय॑तो॒ लाल॑पीति। अतोऽधि॑ ते कृणवद्भाग॒धेयं॑ य॒दानु॑न्मदि॒तोऽस॑ति ॥
स्वर सहित पद पाठइ॒मम् । मे॒ । अ॒ग्ने॒ । पुरु॑षम् । मु॒मु॒ग्धि॒ । अ॒यम् । य: । ब॒ध्द: । सुऽय॑त: । लाल॑पीति ।अत॑: । अधि॑ । ते॒ । कृ॒ण॒व॒त् । भा॒ग॒ऽधेय॑म् । य॒दा । अनु॑त्ऽमदित: । अस॑ति ॥१११.१॥
स्वर रहित मन्त्र
इमं मे अग्ने पुरुषं मुमुग्ध्ययं यो बद्धः सुयतो लालपीति। अतोऽधि ते कृणवद्भागधेयं यदानुन्मदितोऽसति ॥
स्वर रहित पद पाठइमम् । मे । अग्ने । पुरुषम् । मुमुग्धि । अयम् । य: । बध्द: । सुऽयत: । लालपीति ।अत: । अधि । ते । कृणवत् । भागऽधेयम् । यदा । अनुत्ऽमदित: । असति ॥१११.१॥
अथर्ववेद - काण्ड » 6; सूक्त » 111; मन्त्र » 1
Subject - Agni
Translation -
O adorable Lord, may you free from disease this man of ming, who tied down and well-restrained talks deliciously. For this reason, let him make share of offerings for you, so that he may be cured (freed from) of his mania. (anunmadito sati)