Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 61/ मन्त्र 2
सूक्त - अथर्वा
देवता - रुद्रः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - विश्वस्रष्टा सूक्त
अ॒हं वि॑वेच पृथि॒वीमु॒त द्याम॒हमृ॒तूंर॑जनयं स॒प्त सा॒कम्। अ॒हं स॒त्यमनृ॑तं॒ यद्वदा॑म्य॒हं दैवीं॒ परि॒ वाचं॒ विश॑श्च ॥
स्वर सहित पद पाठअ॒हम् । वि॒वे॒च॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । अ॒हम् । ऋ॒तन् । अ॒ज॒न॒य॒म् । स॒प्त । सा॒कम् । अ॒हम् । स॒त्यम् । अनृ॑तम् । यत् । वदा॑मि । अ॒हम् । दैवी॑म् । परि॑ । वाच॑म् । विश॑: । च॒॥६१.२॥
स्वर रहित मन्त्र
अहं विवेच पृथिवीमुत द्यामहमृतूंरजनयं सप्त साकम्। अहं सत्यमनृतं यद्वदाम्यहं दैवीं परि वाचं विशश्च ॥
स्वर रहित पद पाठअहम् । विवेच । पृथिवीम् । उत । द्याम् । अहम् । ऋतन् । अजनयम् । सप्त । साकम् । अहम् । सत्यम् । अनृतम् । यत् । वदामि । अहम् । दैवीम् । परि । वाचम् । विश: । च॥६१.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 61; मन्त्र » 2
Translation -
1 have set the earth and the sky apart. I have created seven seasons together. What is untrue, I speak truly. I have brought the divine speech to people all around.