अथर्ववेद - काण्ड 8/ सूक्त 1/ मन्त्र 18
अ॒यं दे॑वा इ॒हैवास्त्व॒यं मामुत्र॑ गादि॒तः। इ॒मं स॒हस्र॑वीर्येण मृ॒त्योरुत्पा॑रयामसि ॥
स्वर सहित पद पाठअ॒यम् । दे॒वा॒: । इ॒ह । ए॒व । अ॒स्तु॒ । अ॒यम् । मा । अ॒मुत्र॑ । गा॒त् । इ॒त: । इ॒मम् । स॒हस्र॑ऽवीर्येण । मृ॒त्यो: । उत् । पा॒र॒या॒म॒सि॒ ॥१.१८॥
स्वर रहित मन्त्र
अयं देवा इहैवास्त्वयं मामुत्र गादितः। इमं सहस्रवीर्येण मृत्योरुत्पारयामसि ॥
स्वर रहित पद पाठअयम् । देवा: । इह । एव । अस्तु । अयम् । मा । अमुत्र । गात् । इत: । इमम् । सहस्रऽवीर्येण । मृत्यो: । उत् । पारयामसि ॥१.१८॥
अथर्ववेद - काण्ड » 8; सूक्त » 1; मन्त्र » 18
Translation -
O bounties Of nature, may this man remain just here. May he not go yonder from here. With this thousand-fold potent medicine, we bear him up out of death.