अथर्ववेद - काण्ड 8/ सूक्त 9/ मन्त्र 19
सूक्त - अथर्वा
देवता - कश्यपः, समस्तार्षच्छन्दांसि, ऋषिगणः
छन्दः - त्रिष्टुप्
सूक्तम् - विराट् सूक्त
स॒प्त छन्दां॑सि चतुरुत्त॒राण्य॒न्यो अ॒न्यस्मि॒न्नध्यार्पि॑तानि। क॒थं स्तोमाः॒ प्रति॑ तिष्ठन्ति॒ तेषु॒ तानि॒ स्तोमे॑षु क॒थमार्पि॑तानि ॥
स्वर सहित पद पाठस॒प्त । छन्दां॑सि । च॒तु॒:ऽउ॒त्त॒राणि॑ । अ॒न्य: । अ॒न्यस्मि॑न् । अधि॑ । आर्पि॑तानि । क॒थम् । स्तोमा॑: । प्रति॑ । ति॒ष्ठ॒न्ति॒ । तेषु॑ । तानि॑ । स्तोमे॑षु । क॒थम् । आर्पि॑तानि ॥९.१९॥
स्वर रहित मन्त्र
सप्त छन्दांसि चतुरुत्तराण्यन्यो अन्यस्मिन्नध्यार्पितानि। कथं स्तोमाः प्रति तिष्ठन्ति तेषु तानि स्तोमेषु कथमार्पितानि ॥
स्वर रहित पद पाठसप्त । छन्दांसि । चतु:ऽउत्तराणि । अन्य: । अन्यस्मिन् । अधि । आर्पितानि । कथम् । स्तोमा: । प्रति । तिष्ठन्ति । तेषु । तानि । स्तोमेषु । कथम् । आर्पितानि ॥९.१९॥
अथर्ववेद - काण्ड » 8; सूक्त » 9; मन्त्र » 19
Translation -
Seven are the metres, one set upon the other, (each) increasing by four syllables (the previous one). How the stomas (praise-songs) have been adjusted in them ? How have they been adjusted to the stomas ?