ऋग्वेद - मण्डल 9/ सूक्त 11/ मन्त्र 2
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
अ॒भि ते॒ मधु॑ना॒ पयोऽथ॑र्वाणो अशिश्रयुः । दे॒वं दे॒वाय॑ देव॒यु ॥
स्वर सहित पद पाठअ॒भि । ते॒ । मधु॑ना । पयः॑ । अथ॑र्वाणः । अ॒शि॒श्र॒युः॒ । दे॒वम् । दे॒वाय॑ । दे॒व॒ऽयु ॥
स्वर रहित मन्त्र
अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः । देवं देवाय देवयु ॥
स्वर रहित पद पाठअभि । ते । मधुना । पयः । अथर्वाणः । अशिश्रयुः । देवम् । देवाय । देवऽयु ॥ ९.११.२
ऋग्वेद - मण्डल » 9; सूक्त » 11; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 36; मन्त्र » 2
अष्टक » 6; अध्याय » 7; वर्ग » 36; मन्त्र » 2
पदार्थः -
हे परमात्मन् ! (ते) त्वां (अथर्वाणः) दृढविश्वासवन्तो विद्वांसः (अशिश्रयुः) आश्रयन्ते यस्त्वं (देवाय) दिव्यशक्तिप्रदानाय (देवम्) केवलदेवोऽसि तथा (देवयु) दिव्यशक्तिमिच्छुर्जनः (पयः) भवद्रसम् (मधुना) माधुर्येण (अभि) सम्यग्गृह्णाति ॥२॥