Sidebar
अथर्ववेद - काण्ड 1/ सूक्त 13/ मन्त्र 4
सूक्त - भृग्वङ्गिराः
देवता - विद्युत्
छन्दः - त्रिष्टुप् पराबृहतीगर्भा पङ्क्तिः
सूक्तम् - विद्युत सूक्त
यां त्वा॑ दे॒वा असृ॑जन्त॒ विश्व॒ इषुं॑ कृण्वा॒ना अस॑नाय धृ॒ष्णुम्। सा नो॑ मृड वि॒दथे॑ गृणा॒ना तस्यै॑ ते॒ नमो॑ अस्तु देवि ॥
स्वर सहित पद पाठयाम् । त्वा॒ । दे॒वा: । असृ॑जन्त । विश्वे॑ । इषु॑म् । कृ॒ण्वा॒ना: । अस॑नाय । धृ॒ष्णुम् ।सा । न॒: । मृ॒ड॒ । वि॒दधे॑ । गृ॒णा॒ना । तस्यै॑ । ते॒ । नम॑: । अ॒स्तु॒ । दे॒वि॒ ॥
स्वर रहित मन्त्र
यां त्वा देवा असृजन्त विश्व इषुं कृण्वाना असनाय धृष्णुम्। सा नो मृड विदथे गृणाना तस्यै ते नमो अस्तु देवि ॥
स्वर रहित पद पाठयाम् । त्वा । देवा: । असृजन्त । विश्वे । इषुम् । कृण्वाना: । असनाय । धृष्णुम् ।सा । न: । मृड । विदधे । गृणाना । तस्यै । ते । नम: । अस्तु । देवि ॥
अथर्ववेद - काण्ड » 1; सूक्त » 13; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−त्वा। प्रवतो नपातम्, म० ३। देवाः। विद्वांसः। असृजन्त। सृज विसर्गे−लङ्। सृष्टवन्तः, त्यक्तवन्तः। मनसा कल्पितवन्तः। इषुम्। ईषेः किच्च। उ० १।१३। इति ईष हिंसने-उ, ह्रस्वश्च। अथवा। इष गतौ−उ। बाणम् शक्तिनामायुधम्। कृण्वानाः। कृवि हिंसाकरणयोः−शानच्। कुर्वाणाः असनाय। असु क्षेपणे−भावे ल्युट्। क्षेपणाय। नाशनाय। धृष्णुम्। त्रसिगृधिधृषिक्षिपेः क्नुः। पा० ३।२।१४०। इति ञिधृषा प्रागल्भ्ये−क्नु। प्रगल्भाम्, निर्भयाम् सुदृढाम्। मृड। मृडय, सुखय। विदथे। रुविदिभ्यां ङित्। उ० ३।११५। इति विद ज्ञाने, विद्लृ लाभे, विद विचारणे, विद सत्तायाम्−अथ प्रत्ययः। स च ङित्। विदथः, यज्ञनाम−निघ० ३।१७। ज्ञायते हि यज्ञः, लभते हि दक्षिणादिरत्र, विचार्यते हि विद्वद्भिः, भावयत्यनेन फलम्−इति तत्र टीकायां देवराजयज्वा। यज्ञे। वेदितव्ये कर्मणि। गृणाना। गॄ शब्दे−शानच्। शब्दायमाना, उपदिशन्ती। देवि। हे द्योतमाने, हे दिव्यगुणयुक्त ॥
इस भाष्य को एडिट करें