Loading...
अथर्ववेद > काण्ड 1 > सूक्त 6

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 1/ सूक्त 6/ मन्त्र 4
    सूक्त - सिन्धुद्वीपं कृतिः, अथवा अथर्वा देवता - अपांनपात् सोम आपश्च देवताः छन्दः - पथ्यापङ्क्तिः सूक्तम् - जल चिकित्सा सूक्त

    शं न॒ आपो॑ धन्व॒न्या॑३ शमु॑ सन्त्वनू॒प्याः॑। शं नः॑ खनि॒त्रिमा॒ आपः॒ शमु॒ याः कु॒म्भ आभृ॑ताः। शि॒वा नः॑ सन्तु॒ वार्षि॑कीः ॥

    स्वर सहित पद पाठ

    शम् । न॒: । आप॑: । ध॒न्व॒न्या: । शम् । ऊं॒ इति॑ । स॒न्तु॒ । अ॒नू॒प्या: । शम् । न॒: । ख॒नि॒त्रिमा॑: । आप॑: । शम् । ऊं॒ इति॑ । या: । कुम्भे । आऽभृ॑ता: । शि॒वा: । न॒: । स॒न्तु । वार्षि॑की: ॥


    स्वर रहित मन्त्र

    शं न आपो धन्वन्या३ शमु सन्त्वनूप्याः। शं नः खनित्रिमा आपः शमु याः कुम्भ आभृताः। शिवा नः सन्तु वार्षिकीः ॥

    स्वर रहित पद पाठ

    शम् । न: । आप: । धन्वन्या: । शम् । ऊं इति । सन्तु । अनूप्या: । शम् । न: । खनित्रिमा: । आप: । शम् । ऊं इति । या: । कुम्भे । आऽभृता: । शिवा: । न: । सन्तु । वार्षिकी: ॥

    अथर्ववेद - काण्ड » 1; सूक्त » 6; मन्त्र » 4

    टिप्पणीः - ४−शम्−१।३।१। सुखकारिण्यः। नः−अस्मभ्यम्। आपः−जलानि, जलवद् गुणिनः पुरुषाः। धन्वन्याः−कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः। उ० १।१५६। इति धवि गतौ-कनिन्। इदित्त्वात् नुम्। इति धन्वन्। भवे छन्दसि। पा० ४।४।११०। इति यत्। तित् स्वरितम्। पा० ६।१।१८५। इति स्वरितः। धन्वनि मरुभूमौ भवा आपः। ऊं इति। च। अनूप्याः। अनुगता आपो यत्रेति अनूपो देशः। ऋक्पूरब्धूः०। पा० ५।४।७४। इति अनु+अप्−अकारः समासान्तः। ऊदनोर्देशे। पा० ६।३।९८। इति अप् शब्दस्य अकारस्य ऊकारः। पूर्ववद् यत् प्रत्ययः स्वरितश्च। अनूपे जलप्राये देशे भवा आपः। खनित्रिमाः। खनु अवदारणे−अस्माच्छान्दसः क्त्रि प्रत्ययः। आर्धधातुकस्येड् वलादेः। पा० ७।२।३५। इति इडागमः। क्त्रेर्मम्नित्यम्। इति मप् खनित्रेण अस्त्रविशेषेण निर्वृत्ताः कूपोद्भवाः। कुम्भे। कुं भूमिम् उम्भति जलेन। उन्भ पूरणे-अच्। शकन्ध्वादित्वात् साधुः। घटे, कलशे। आ-भृताः। दृञ् हरणे-क्त। हृग्रहोर्भः−इति भत्वम्। आहृताः, आनीताः। शिवाः। सुखदात्र्यः। वार्षिकीः। छन्दसि ठञ्। पा० ४।३।१९। इति वर्षा+ठञ्। ङीप्। जसि पूर्वसवर्णदीर्घः। वार्षिक्यः, वर्षासु भवाः ॥

    इस भाष्य को एडिट करें
    Top