अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 10
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
अरि॑ष्टो॒ऽहमरि॑ष्टगु॒रायु॑ष्मा॒न्त्सर्व॑पूरुषः। तं मायं व॑र॒णो म॒णिः परि॑ पातु दि॒शोदि॑शः ॥
स्वर सहित पद पाठअरि॑ष्ट: । अ॒हम् । अरि॑ष्टऽगु: । आयु॑ष्मान् । सर्व॑ऽपुरुष: । तम् । मा॒ । अ॒यम् । व॒र॒ण: । म॒णि: । परि॑ । पा॒तु॒ । दि॒श:ऽदि॑श: ॥३.१०॥
स्वर रहित मन्त्र
अरिष्टोऽहमरिष्टगुरायुष्मान्त्सर्वपूरुषः। तं मायं वरणो मणिः परि पातु दिशोदिशः ॥
स्वर रहित पद पाठअरिष्ट: । अहम् । अरिष्टऽगु: । आयुष्मान् । सर्वऽपुरुष: । तम् । मा । अयम् । वरण: । मणि: । परि । पातु । दिश:ऽदिश: ॥३.१०॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(अरिष्टः) अहिंसितः (अहम्) (अरिष्टगुः) गौर्वाङ्नाम-निघ० १।११। गोस्त्रियोरुपसर्जनस्य। पा० १।२।४८। गोर्ह्रस्वः। अहिंसितविद्यः (आयुष्मान्) उत्तमजीवनोपेतः (सर्वपुरुषः) सर्वपुरुषयुक्तः (तम्) तादृशम् (मा) माम् (दिशोदिशः) सर्वस्या दिशायाः सकाशात्। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें