अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 11
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
अ॒यं मे॑ वर॒ण उर॑सि॒ राजा॑ दे॒वो वन॒स्पतिः॑। स मे॒ शत्रू॒न्वि बा॑धता॒मिन्द्रो॒ दस्यू॑नि॒वासु॑रान् ॥
स्वर सहित पद पाठअ॒यम् । मे॒ । व॒र॒ण: । उर॑सि । राजा॑ । दे॒व: । वन॒स्पति॑: । स: । मे॒ । शत्रू॑न् । वि । बा॒ध॒ता॒म् । इन्द्र॑: । दस्यू॑न्ऽइव । असु॑रान् ॥३.११॥
स्वर रहित मन्त्र
अयं मे वरण उरसि राजा देवो वनस्पतिः। स मे शत्रून्वि बाधतामिन्द्रो दस्यूनिवासुरान् ॥
स्वर रहित पद पाठअयम् । मे । वरण: । उरसि । राजा । देव: । वनस्पति: । स: । मे । शत्रून् । वि । बाधताम् । इन्द्र: । दस्यून्ऽइव । असुरान् ॥३.११॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(उरसि) हृदये (राजा) ऐश्वर्यवान् (शत्रून्) अरीन् (वि) विशेषेण (बाधताम्) निवारयतु (इन्द्रः) परमैश्वर्यवान् (दस्यून्) चौरान् महासाहसिकान् (इव) यथा (असुरान्) सज्जनविरोधकान् ॥
इस भाष्य को एडिट करें