अथर्ववेद - काण्ड 10/ सूक्त 3/ मन्त्र 14
सूक्त - अथर्वा
देवता - वरणमणिः, वनस्पतिः, चन्द्रमाः
छन्दः - पथ्यापङ्क्तिः
सूक्तम् - सपत्नक्षयणवरणमणि सूक्त
यथा॒ वात॑श्चा॒ग्निश्च॑ वृ॒क्षान्प्सा॒तो वन॒स्पती॑न्। ए॒वा स॒पत्ना॑न्मे प्साहि॒ पूर्वा॑ञ्जा॒ताँ उ॒ताप॑रान्वर॒णस्त्वा॒भि र॑क्षतु ॥
स्वर सहित पद पाठयथा॑ । वात॑: । च॒ । अ॒ग्नि: । च॒ । वृ॒क्षान् । प्सा॒त: । वन॒स्पती॑न् । ए॒व । स॒ऽपत्ना॑न् । मे॒ । प्सा॒हि॒ । पूर्वा॑न् । जा॒तान् । उ॒त । अप॑रान् । व॒र॒ण: । त्वा॒ । अ॒भि । र॒क्ष॒तु॒ ॥३.१४॥
स्वर रहित मन्त्र
यथा वातश्चाग्निश्च वृक्षान्प्सातो वनस्पतीन्। एवा सपत्नान्मे प्साहि पूर्वाञ्जाताँ उतापरान्वरणस्त्वाभि रक्षतु ॥
स्वर रहित पद पाठयथा । वात: । च । अग्नि: । च । वृक्षान् । प्सात: । वनस्पतीन् । एव । सऽपत्नान् । मे । प्साहि । पूर्वान् । जातान् । उत । अपरान् । वरण: । त्वा । अभि । रक्षतु ॥३.१४॥
अथर्ववेद - काण्ड » 10; सूक्त » 3; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(प्सातः) भक्षतः (प्साहि) भक्ष। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें