अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 10
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसाना सप्तपदा भुरिगतिधृतिः
सूक्तम् - अध्यात्म सूक्त
यत्ते॑ च॒न्द्रं क॑श्यप रोच॒नाव॒द्यत्सं॑हि॒तं पु॑ष्क॒लं चि॒त्रभा॑नु॒। यस्मि॒न्त्सूर्या॒ आर्पि॑ताः स॒प्त सा॒कम्। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठयत् । ते॒ । च॒न्द्रम् । क॒श्य॒प॒ । रो॒च॒नऽव॑त् । यत् । स॒म्ऽहि॒तम् । पु॒ष्क॒लम् । चि॒त्रऽभा॑नु । यस्मि॑न् । सूर्या॑: । आर्पि॑ता: । स॒प्त । सा॒कम् । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.१०॥
स्वर रहित मन्त्र
यत्ते चन्द्रं कश्यप रोचनावद्यत्संहितं पुष्कलं चित्रभानु। यस्मिन्त्सूर्या आर्पिताः सप्त साकम्। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठयत् । ते । चन्द्रम् । कश्यप । रोचनऽवत् । यत् । सम्ऽहितम् । पुष्कलम् । चित्रऽभानु । यस्मिन् । सूर्या: । आर्पिता: । सप्त । साकम् । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.१०॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(यत्) (ते) तव (चन्द्रम्) स्फायितञ्चिवञ्चि०। उ० २।१३। चदि आह्लादने दीप्तौ च-रक्। आह्लादकं कर्म (कश्यप) पश्यक (रोचनवत्) रुचियुक्तम् (यत्) (संहितम्) एकीकृतम् (पुष्कलम्) कलँश्च। उ० ४।५। पुष पुष्टौ-कलन्। पोषणकर्म, (चित्रभानु) विचित्रदीप्ति (यस्मिन्) परमेश्वरनियमे (सूर्याः) अ० ९।४।१४। षू प्रेरणे-क्यप्, टाप्। सूर्या सूर्यस्य पत्नी-निरु० १२।७। सूर्यकिरणाः (अर्पिताः) स्थापिताः (सप्त) शुक्लनीलादिसप्तवर्णाः (साकम्) सह ॥
इस भाष्य को एडिट करें