Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 20
    सूक्त - ब्रह्मा देवता - रोहितः, आदित्यः, अध्यात्मम् छन्दः - चतुरवसानाष्टपदाकृतिः सूक्तम् - अध्यात्म सूक्त

    स॒म्यञ्चं॒ तन्तुं॑ प्र॒दिशोऽनु॒ सर्वा॑ अ॒न्तर्गा॑य॒त्र्याम॒मृत॑स्य॒ गर्भे॑। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥

    स्वर सहित पद पाठ

    स॒म्यञ्च॑म् । तन्तु॑म् । प्र॒ऽदिश॑: । अनु॑ । सर्वा॑: । अ॒न्त: । गा॒य॒त्र्याम् । अ॒मृत॑स्य । गर्भे॑ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्ष‍ि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.२०॥


    स्वर रहित मन्त्र

    सम्यञ्चं तन्तुं प्रदिशोऽनु सर्वा अन्तर्गायत्र्याममृतस्य गर्भे। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥

    स्वर रहित पद पाठ

    सम्यञ्चम् । तन्तुम् । प्रऽदिश: । अनु । सर्वा: । अन्त: । गायत्र्याम् । अमृतस्य । गर्भे । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्ष‍िणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.२०॥

    अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 20

    टिप्पणीः - २०−(सम्यञ्चम्) संगतम् (तन्तुम्) विस्तारम् (प्रदिशः) प्रकृष्टा दिशाः (सर्वाः) (अन्तः) मध्ये (गायत्र्याम्) अमिनक्षियजि०। ३।१०५। गै गाने-अत्रन्, स च णित्। आतो युक् चिण्कृतोः। पा० ७।३।३३। इति युक्। गायत्री गायतेः स्तुतिकर्मणः-निरु–० ७।—१२। गानयोग्यायां स्तुत्यायां वेदवाचि (अमृतस्य) अविनाशिनः परमेश्वरस्य (गर्भे) अधिकरणे ॥

    इस भाष्य को एडिट करें
    Top