अथर्ववेद - काण्ड 13/ सूक्त 3/ मन्त्र 17
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - चतुरवसाना सप्तपदा कृतिः
सूक्तम् - अध्यात्म सूक्त
येना॑दि॒त्यान्ह॒रितः॑ सं॒वह॑न्ति॒ येन॑ य॒ज्ञेन॑ ब॒हवो॒ यन्ति॑ प्रजा॒नन्तः॑। यदेकं॒ ज्योति॑र्बहु॒धा वि॒भाति॑। तस्य॑ दे॒वस्य॑ क्रु॒द्धस्यै॒तदागो॒ य ए॒वं वि॒द्वांसं॑ ब्राह्म॒णं जि॒नाति॑। उद्वे॑पय रोहित॒ प्र क्षि॑णीहि ब्रह्म॒ज्यस्य॒ प्रति॑ मुञ्च॒ पाशा॑न् ॥
स्वर सहित पद पाठयेन॑ । आ॒दि॒त्यान् । ह॒रित॑: । स॒म्ऽवह॑न्ति । येन॑ । य॒ज्ञेन॑ । ब॒हव॑: । यन्ति॑ । प्र॒ऽजा॒नन्त॑: । यत् । एक॑म् । ज्योति॑: । ब॒हु॒ऽधा । वि॒ऽभाति॑ । तस्य॑ । दे॒वस्य॑ ॥ क्रु॒ध्दस्य॑ । ए॒तत् । आग॑: । य: । ए॒वम् । वि॒द्वांस॑म् । ब्रा॒ह्म॒णम् । जि॒नाति॑ । उत् । वे॒प॒य॒ । रो॒हि॒त॒ । प्र । क्षि॒णी॒हि॒ । ब्र॒ह्म॒ऽज्यस्य॑ । प्रति॑ । मु॒ञ्च॒ । पाशा॑न् ॥३.१७॥
स्वर रहित मन्त्र
येनादित्यान्हरितः संवहन्ति येन यज्ञेन बहवो यन्ति प्रजानन्तः। यदेकं ज्योतिर्बहुधा विभाति। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥
स्वर रहित पद पाठयेन । आदित्यान् । हरित: । सम्ऽवहन्ति । येन । यज्ञेन । बहव: । यन्ति । प्रऽजानन्त: । यत् । एकम् । ज्योति: । बहुऽधा । विऽभाति । तस्य । देवस्य ॥ क्रुध्दस्य । एतत् । आग: । य: । एवम् । विद्वांसम् । ब्राह्मणम् । जिनाति । उत् । वेपय । रोहित । प्र । क्षिणीहि । ब्रह्मऽज्यस्य । प्रति । मुञ्च । पाशान् ॥३.१७॥
अथर्ववेद - काण्ड » 13; सूक्त » 3; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(येन) परमेश्वरेण सह (आदित्यान्) अखण्डब्रह्मचारिणः पुरुषान् (हरितः) दिशः-निघ० १।६। (संवहन्ति) संगत्य प्रापयन्ति (येन) (यज्ञेन) पूजनीयेन कर्मणा (बहवः) (यन्ति) गच्छन्ति (प्रजानन्तः) भविष्यज्ञानिनः (यत्) (एकम्) अद्वितीयम् (ज्योतिः) तेजःस्वरूपं ब्रह्म (बहुधा) अनेकप्रकारेण (विभाति) विविधं प्रकाशते ॥
इस भाष्य को एडिट करें