Loading...
अथर्ववेद > काण्ड 15 > सूक्त 10

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 10/ मन्त्र 1
    सूक्त - अध्यात्म अथवा व्रात्य देवता - त्रिपदा साम्नी बृहती छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तद्यस्यै॒वंवि॒द्वान्व्रात्यो॒ राज्ञोऽति॑थिर्गृ॒हाना॒गच्छे॑त् ॥

    स्वर सहित पद पाठ

    तत् । यस्य॑ । ए॒वम् । वि॒द्वान् । व्रात्य॑: । राज्ञ॑: । अति॑थि: । गृ॒हान् । आ॒ऽगच्छे॑त् ॥१०.१॥


    स्वर रहित मन्त्र

    तद्यस्यैवंविद्वान्व्रात्यो राज्ञोऽतिथिर्गृहानागच्छेत् ॥

    स्वर रहित पद पाठ

    तत् । यस्य । एवम् । विद्वान् । व्रात्य: । राज्ञ: । अतिथि: । गृहान् । आऽगच्छेत् ॥१०.१॥

    अथर्ववेद - काण्ड » 15; सूक्त » 10; मन्त्र » 1

    टिप्पणीः - १−(तत्) तदा (यस्य) (एवम्) सू० २ म० ३। इण् गतौ-वन्। व्यापकं परमात्मानम् (विद्वान्) विद ज्ञाने-शतृ, वसुरादेशः। जानन् (व्रात्यः) सू० १।१। व्रत-ण्य। व्रतधारी। सदाचारी (राज्ञः)नरपतेः (अतिथिः) अ० ७।२१।१। ऋतन्यञ्जिवन्य०। उ० ४।२। अत सातत्यगमने-इथिन्।अतनशीलः। नित्यं प्रापणीयः। विद्वान्। अभ्यागतः (गृहान्) (आगच्छेत्) ॥

    इस भाष्य को एडिट करें
    Top