अथर्ववेद - काण्ड 16/ सूक्त 8/ मन्त्र 2
सूक्त - दुःस्वप्ननासन
देवता - त्रिपदा निचृत गायत्री
छन्दः - यम
सूक्तम् - दुःख मोचन सूक्त
तस्मा॑द॒मुंनिर्भ॑जामो॒ऽमुमा॑मुष्याय॒णम॒मुष्याः॑ पु॒त्रम॒सौ यः ॥
स्वर सहित पद पाठतस्मा॑त् । अ॒मुम् । नि: । भ॒जा॒म॒: । अ॒मुम् । आ॒मु॒ष्या॒य॒णम् । अ॒मुष्या॑: । पु॒त्रम् । अ॒सौ । य: ॥८.२॥
स्वर रहित मन्त्र
तस्मादमुंनिर्भजामोऽमुमामुष्यायणममुष्याः पुत्रमसौ यः ॥
स्वर रहित पद पाठतस्मात् । अमुम् । नि: । भजाम: । अमुम् । आमुष्यायणम् । अमुष्या: । पुत्रम् । असौ । य: ॥८.२॥
अथर्ववेद - काण्ड » 16; सूक्त » 8; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(तस्मात्)प्रसिद्धात्, पदात् (अमुम्) अमुकपुरुषम् (अमुम्) अमुकपुरुषम् (निर्भजामः)भागरहितं कुर्मः (आमुष्यायणम्) अमुकपुरुषस्य सन्तानम् (अमुष्याः) अमुकस्त्रियाः (पुत्रम्) सुतम् (असौ) (यः) कुमार्गी पुरुषः ॥
इस भाष्य को एडिट करें