अथर्ववेद - काण्ड 19/ सूक्त 18/ मन्त्र 2
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - आर्च्यनुष्टुप्
सूक्तम् - सुरक्षा सूक्त
वा॒युं ते॒न्तरि॑क्षवन्तमृच्छन्तु। ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त् ॥
स्वर सहित पद पाठवा॒युम्। ते। अ॒न्तरि॑क्षऽवन्तम्। ऋ॒च्छ॒न्तु॒। ये। मा॒। अ॒घ॒ऽयवः॑। ए॒तस्याः॑। दि॒शः। अ॒भि॒ऽदासा॑त् ॥१८.२॥
स्वर रहित मन्त्र
वायुं तेन्तरिक्षवन्तमृच्छन्तु। ये माघायव एतस्या दिशोऽभिदासात् ॥
स्वर रहित पद पाठवायुम्। ते। अन्तरिक्षऽवन्तम्। ऋच्छन्तु। ये। मा। अघऽयवः। एतस्याः। दिशः। अभिऽदासात् ॥१८.२॥
अथर्ववेद - काण्ड » 19; सूक्त » 18; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(वायुम्) सर्वव्यापकं परमात्मानम् (अन्तरिक्षवन्तम्) मध्यलोकस्य स्वामिनम् (एतस्याः) मध्यवर्तमानायाः। अन्यत् पूर्ववत् ॥
इस भाष्य को एडिट करें