अथर्ववेद - काण्ड 19/ सूक्त 56/ मन्त्र 3
सूक्त - यमः
देवता - दुःष्वप्ननाशनम्
छन्दः - त्रिष्टुप्
सूक्तम् - दुःस्वप्नानाशन सूक्त
बृ॑ह॒द्गावासु॑रे॒भ्योऽधि॑ दे॒वानुपा॑वर्तत महि॒मान॑मि॒च्छन्। तस्मै॒ स्वप्ना॑य दधु॒राधि॑पत्यं त्रयस्त्रिं॒शासः॒ स्वरानशा॒नाः ॥
स्वर सहित पद पाठबृ॒ह॒त्ऽगावा॑। असु॑रेभ्यः। अधि॑। दे॒वान्। उप॑। अ॒व॒र्त॒त॒। म॒हि॒मान॑म् । इ॒च्छन्। तस्मै॑। स्वप्ना॑य। द॒धुः॒। आधि॑पत्यम्। त्र॒यः॒ऽत्रिं॒शासः॑। स्वः᳡। आ॒न॒शा॒नाः ॥५६.३॥
स्वर रहित मन्त्र
बृहद्गावासुरेभ्योऽधि देवानुपावर्तत महिमानमिच्छन्। तस्मै स्वप्नाय दधुराधिपत्यं त्रयस्त्रिंशासः स्वरानशानाः ॥
स्वर रहित पद पाठबृहत्ऽगावा। असुरेभ्यः। अधि। देवान्। उप। अवर्तत। महिमानम् । इच्छन्। तस्मै। स्वप्नाय। दधुः। आधिपत्यम्। त्रयःऽत्रिंशासः। स्वः। आनशानाः ॥५६.३॥
अथर्ववेद - काण्ड » 19; सूक्त » 56; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(बृहद्गावा) आतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७४। गाङ् गतौ-क्वनिप्। महागतिशीलः (असुरेभ्यः) सुरविरोधिभ्यः। अविद्वद्भ्यः (अधि) (देवान्) विदुषः पुरुषान् (उपावर्तत) समीपं प्राप्तवान् (महिमानम्) स्वप्रभावम्। (इच्छन्) कामयमानः (तस्मै) तादृशाय (स्वप्नाय) (दधुः) दत्तवन्तः (आधिपत्यम्) साम्राज्यम् (त्रयस्त्रिंशासः) सर्वेषां त्रयस्त्रिंशत्संख्यापूरणत्वात् डट्-प्रत्ययः। त्रयस्त्रिंशत्संख्याकाः। अष्टौ वसवः, एकादश रुद्राः, द्वादशादित्याः, इन्द्रः प्रजापतिश्चेति-अथर्व० ६।१३९।१। (स्वः) सुखम् (आनशानाः) अश्नोतेर्लिटः कानच्। प्राप्तवन्तः ॥
इस भाष्य को एडिट करें