Loading...
अथर्ववेद > काण्ड 19 > सूक्त 56

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 19/ सूक्त 56/ मन्त्र 4
    सूक्त - यमः देवता - दुःष्वप्ननाशनम् छन्दः - त्रिष्टुप् सूक्तम् - दुःस्वप्नानाशन सूक्त

    नैतां वि॑दुः पि॒तरो॒ नोत दे॒वा येषां॒ जल्पि॒श्चर॑त्यन्त॒रेदम्। त्रि॒ते स्वप्न॑मदधुरा॒प्त्ये नर॑ आदि॒त्यासो॒ वरु॑णे॒नानु॑शिष्टाः ॥

    स्वर सहित पद पाठ

    न। ए॒ताम्। वि॒दुः॒। पि॒तरः॑। न। उ॒त। दे॒वाः। येषा॑म्। जल्पिः॑। चर॑ति। अ॒न्त॒रा। इ॒दम् । त्रि॒ते। स्वप्न॑म्। अ॒द॒धुः॒। आ॒प्त्ये। नर॑। आदि॑त्यासः। वरु॑णेन। अनु॑ऽशिष्टाः ॥५६.४॥


    स्वर रहित मन्त्र

    नैतां विदुः पितरो नोत देवा येषां जल्पिश्चरत्यन्तरेदम्। त्रिते स्वप्नमदधुराप्त्ये नर आदित्यासो वरुणेनानुशिष्टाः ॥

    स्वर रहित पद पाठ

    न। एताम्। विदुः। पितरः। न। उत। देवाः। येषाम्। जल्पिः। चरति। अन्तरा। इदम् । त्रिते। स्वप्नम्। अदधुः। आप्त्ये। नर। आदित्यासः। वरुणेन। अनुऽशिष्टाः ॥५६.४॥

    अथर्ववेद - काण्ड » 19; सूक्त » 56; मन्त्र » 4

    टिप्पणीः - ४−(न) निषेधे (एताम्) वक्ष्यमाणां वाणीम् (विदुः) जानन्ति (पितरः) पालकाः (न) निषेधे (उत) अपि च (देवाः) विद्वांसः (येषाम्) (जल्पिः) जल्प व्यक्तायां वाचि इन्-प्रत्ययः। वाणी (चरति) विचरति। वर्तते (इदम् अन्तरा) अस्य जगतो मध्ये (त्रिते) अ० ५।१।१। त्रि+तनु विस्तारे-ड प्रत्ययः। लोकत्रयविस्तारके परमात्मनि (स्वप्नम्) (दधुः) धारितवन्तः (आप्त्ये) आप्तानां सत्यवक्तॄणां हिते (नरः) नेतारः (आदित्यासः) अखण्डव्रतिनः (वरुणेन) श्रेष्ठेन परमेश्वरेण (अनुशिष्टाः) निरन्तरमुपदिष्टाः ॥

    इस भाष्य को एडिट करें
    Top