अथर्ववेद - काण्ड 19/ सूक्त 7/ मन्त्र 4
सूक्त - गार्ग्यः
देवता - नक्षत्राणि
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - नक्षत्र सूक्त
अन्नं॒ पूर्वा॑ रासतां मे अषा॒ढा ऊर्जं॑ दे॒व्युत्त॑रा॒ आ व॑हन्तु। अ॑भि॒जिन्मे॑ रासतां॒ पुण्य॑मे॒व श्रव॑णः॒ श्रवि॑ष्ठाः कुर्वतां सुपु॒ष्टिम् ॥
स्वर सहित पद पाठअन्न॑म्। पूर्वा॑। रा॒स॒ता॒म्। मे॒। अ॒षा॒ढाः। ऊर्ज॑म्। दे॒वी। उत्ऽत॑रोः। आ। व॒ह॒न्तु॒। अ॒भि॒ऽजित्। मे॒। रा॒स॒ता॒म्। पुण्य॑म्। ए॒व। श्रव॑णः। श्रवि॑ष्ठाः। कु॒र्व॒ता॒म्। सु॒ऽपु॒ष्टिम् ॥७.४॥
स्वर रहित मन्त्र
अन्नं पूर्वा रासतां मे अषाढा ऊर्जं देव्युत्तरा आ वहन्तु। अभिजिन्मे रासतां पुण्यमेव श्रवणः श्रविष्ठाः कुर्वतां सुपुष्टिम् ॥
स्वर रहित पद पाठअन्नम्। पूर्वा। रासताम्। मे। अषाढाः। ऊर्जम्। देवी। उत्ऽतरोः। आ। वहन्तु। अभिऽजित्। मे। रासताम्। पुण्यम्। एव। श्रवणः। श्रविष्ठाः। कुर्वताम्। सुऽपुष्टिम् ॥७.४॥
अथर्ववेद - काण्ड » 19; सूक्त » 7; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - इस मन्त्र में इन नक्षत्रों का वर्णन है। १८−पूर्वा-अषाढ़ा [यद्वा पूर्वा−आषाढा=पूर्वाषाढा, सूप−आकृति, चार तारापुञ्ज, वीसवाँ नक्षत्र], १९−उत्तरा-अषाढ़ा [यद्वा उत्तरा−आषाढा=उत्तराषाढ़ा, सूप−आकृति, चार तारापुञ्ज, इक्कीसवाँ नक्षत्र], २०-अभिजित् [सब ओर से जीतनेवाला, उत्तराषाढ़ा नक्षत्र के शेष पन्द्रह, दण्ड और श्रवणा नक्षत्र के पहिले चार दण्ड, उन्नीस दण्डवाला तारा विशेष, सिंगाड़े की आकृति, तीन तारापुञ्ज], २१−श्रवणा [यद्वा श्रवण, सुननेवाला वा चलनेवाला, तीर की आकृति, तीन तारापुञ्ज, बाइसवाँ नक्षत्र], २२−श्रविष्ठाएँ [अत्यन्त विख्यात, यद्वा धनिष्ठा−बहुत धनवाली, मृदङ्ग−आकृति, पाँच तारापुञ्ज तेइसवाँ नक्षत्र] ॥ ४−(अन्नम्) जीवनसाधनं भक्षणीयं पदार्थं वा (पूर्वा) बहुवचनस्यैकवचनम्। पूर्वाः। प्रथमभवाः (रासताम्) रासतीति दानकर्मा-निघ० ३।२०। रासृ दाने शब्दे च-लोट्, बहुवचनम्, अदादित्वं छान्दसम्। ददतु (मे) मह्यम् (अषाढाः) नञ्+षह मर्षणे-अण्, टाप्। शूर्पाकृति चतुस्तारात्मकं विंशनक्षत्रम् (ऊर्जम्) पराक्रमम् (देवी) देव्यः। प्रकाशमानाः (उत्तराः) उत्तरे भवाः। उत्तराषाढाः। शूर्पाकृति ताराचतुष्टयात्मकमेकविंशनक्षत्रम् (अभिजित्) अभि+जि जये-क्विप्। उत्तराषाढायाः शेषपञ्चदशदण्डाः श्रवणायाः प्रथमदण्डचतुष्टयम् एतदूनविंशतिदण्डात्मकं नक्षत्रम्, तारकात्रयात्मकं शृङ्गाटकाकृति (मे) मह्यम् (रासताम्) रासृ दाने, भ्वादिः, आत्मनेपदम्। ददातु। प्रयच्छतु (पुण्यम्) शुभम् (एव) अवधारणे (श्रवणः) श्रु गतौ श्रवणे च−ल्यु। शराकृति, तारात्रयात्मकं द्वाविंशनक्षत्रम् (श्रविष्ठाः) श्रु श्रवणे-अप्, श्रवः-मतुप्, इष्ठन्। अतिशयेन श्रवणीयाः प्रख्याताः। धनिष्ठानक्षत्रम्। मर्दलाकृति पञ्चतारात्मकं त्रयोविंशनक्षत्रम् (कुर्वताम्) कुर्वन्तु (सुपुष्टिम्) बहुवृद्धिम् ॥
इस भाष्य को एडिट करें