अथर्ववेद - काण्ड 19/ सूक्त 8/ मन्त्र 6
सूक्त - गार्ग्यः
देवता - ब्रह्मणस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - नक्षत्र सूक्त
इ॒मा या ब्र॑ह्मणस्पते॒ विषु॑ची॒र्वात॒ ईर॑ते। स॒ध्रीची॑रिन्द्र॒ ताः कृ॒त्वा मह्यं॑ शि॒वत॑मास्कृधि ॥
स्वर सहित पद पाठइ॒माः। याः। ब्र॒ह्म॒णः॒। प॒ते॒। विषू॑चीः। वातः॑। ईर॑ते। स॒ध्रीचीः॑। इ॒न्द्रः॒। ताः। कृ॒त्वा। मह्य॑म्। शि॒वऽत॑माः। कृ॒धि॒ ॥८.६॥
स्वर रहित मन्त्र
इमा या ब्रह्मणस्पते विषुचीर्वात ईरते। सध्रीचीरिन्द्र ताः कृत्वा मह्यं शिवतमास्कृधि ॥
स्वर रहित पद पाठइमाः। याः। ब्रह्मणः। पते। विषूचीः। वातः। ईरते। सध्रीचीः। इन्द्रः। ताः। कृत्वा। मह्यम्। शिवऽतमाः। कृधि ॥८.६॥
अथर्ववेद - काण्ड » 19; सूक्त » 8; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(इमाः) परिदृश्यमानाः (याः) (ब्रह्मणस्पते) हे ब्रह्माण्डस्य स्वामिन् परमात्मन् (विषूचीः) विष्वगञ्चनाः। विविधव्यापिका दिशाः (वातः) वायुः (ईरते) भौवादिकः। गच्छति। प्राप्नोति (सध्रीचीः) सह+अञ्चतेः-क्विन्, ङीप्, सहस्य सध्रि आदेशः। परस्परपूजनीयाः (इन्द्र) हे परमैश्वर्यवन् जगदीश्वर (ताः) दिशः (कृत्वा) विधाय (मह्यम्) मदर्थम् (शिवतमाः) अत्यर्थं सुखकारिणीः (कृधि) कुरु ॥
इस भाष्य को एडिट करें