अथर्ववेद - काण्ड 2/ सूक्त 1/ मन्त्र 3
स नः॑ पि॒ता ज॑नि॒ता स उ॒त बन्धु॒र्धामा॑नि वेद॒ भुव॑नानि॒ विश्वा॑। यो दे॒वानां॑ नाम॒ध एक॑ ए॒व तं सं॑प्र॒श्नं भुव॑ना यन्ति॒ सर्वा॑ ॥
स्वर सहित पद पाठस: । न॒: । पि॒ता । ज॒नि॒ता । स: । उ॒त । बन्धु॑: । धामा॑नि । वे॒द॒ । भुव॑नानि । विश्वा॑ । य: । दे॒वाना॑म् । ना॒म॒ऽध: । एक॑: । ए॒व । तम् । स॒म्ऽप्र॒श्नम् । भुव॑ना । य॒न्ति॒ । सर्वा॑ ॥१.३॥
स्वर रहित मन्त्र
स नः पिता जनिता स उत बन्धुर्धामानि वेद भुवनानि विश्वा। यो देवानां नामध एक एव तं संप्रश्नं भुवना यन्ति सर्वा ॥
स्वर रहित पद पाठस: । न: । पिता । जनिता । स: । उत । बन्धु: । धामानि । वेद । भुवनानि । विश्वा । य: । देवानाम् । नामऽध: । एक: । एव । तम् । सम्ऽप्रश्नम् । भुवना । यन्ति । सर्वा ॥१.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 1; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३–पिता। म० २ पालयिता। जनिता। जनी जनने–णिचि तृच्। जनिता मन्त्रे। पा० ६।४।५३। इति तृचि णिलोपो निपात्यते। जनयिता। उत्पादकः। बन्धुः। शॄस्वृस्निहि०। उ० १।१०। इति बन्ध बन्धने उ प्रत्ययः, स च नित्। ञ्नित्यादिर्नित्यम्। पा० ६।१।१९१। इति नित्त्वाद् आद्युदात्तः, प्रेम्णा बध्नातीति। बान्धवः। धामानि। म० २। धामानि त्रयाणि भवन्ति स्थानानि नामानि जन्मानीति–निरु० ९।२८। जन्मस्थाननामानि। वेद। म० १। वेत्ति। भुवनानि। भूसूधूभ्रस्जिभ्यश्छन्दसि। उ० २।८०। इति भू सत्तायाम्–क्युन्। सर्वपदार्थाधिकरणानि। लोकान्। देवानाम्। दिवु पचाद्यच् पृथिव्यादिदिव्यपदार्थानाम्। नामधः। नाम+धाञ् धारणे–क। नामकरणकर्ता, नामधारकः। एकः। इण्गतौ–कन्। अद्वितीयः। असहायः। सम्प्रश्नम्। सम्यक् पृच्छन्ति यस्मिँस्तम्। परमात्मानम्। यथाविधि। प्रश्नीयम्। अन्वेषणीयम्। भुवना। भुवनानि। लोकाः। यन्ति। इण् गतौ–लट्। गच्छन्ति, प्राप्नुवन्ति। लभन्ते ॥
इस भाष्य को एडिट करें