अथर्ववेद - काण्ड 2/ सूक्त 1/ मन्त्र 4
परि॒ द्यावा॑पृथि॒वी स॒द्य आ॑य॒मुपा॑तिष्ठे प्रथम॒जामृ॒तस्य॑। वाच॑मिव व॒क्तरि॑ भुवने॒ष्ठा धा॒स्युरे॒ष न॒न्वे॑३षो अ॒ग्निः ॥
स्वर सहित पद पाठपरि॑ । द्यावा॑पृथि॒वी इति॑ । स॒द्य: । आ॒य॒म् । उप॑ । आ॒ऽति॒ष्ठे॒ । प्र॒थ॒म॒ऽजाम् । ऋ॒तस्य॑ ।वाच॑म्ऽइव । व॒क्तरि॑ । भु॒व॒ने॒ऽस्था: । धा॒स्यु: । ए॒ष: । न॒नु । ए॒ष: । अ॒ग्नि: ॥१.४॥
स्वर रहित मन्त्र
परि द्यावापृथिवी सद्य आयमुपातिष्ठे प्रथमजामृतस्य। वाचमिव वक्तरि भुवनेष्ठा धास्युरेष नन्वे३षो अग्निः ॥
स्वर रहित पद पाठपरि । द्यावापृथिवी इति । सद्य: । आयम् । उप । आऽतिष्ठे । प्रथमऽजाम् । ऋतस्य ।वाचम्ऽइव । वक्तरि । भुवनेऽस्था: । धास्यु: । एष: । ननु । एष: । अग्नि: ॥१.४॥
अथर्ववेद - काण्ड » 2; सूक्त » 1; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४–द्यावापृथिवी। दिवो द्यावा। पा० ६।३।२९। इति दिव् शब्दस्य द्यावा इत्यादेशः। देवताद्वन्द्वे। वा छन्दसि। पा० ६।१।१०६। इति पूर्वसवर्णदीर्घः। देवताद्वन्द्वे च। पा० ६।२।१४१। इत्युभयपदप्रकृतिस्वरत्वम्। द्यौश्च–पृथिवी च द्यावापृथिव्यौ। सूर्यभूमी। तदुपलक्षितं कृत्स्नं जगत्। सद्यः। सद्यः परुत्परार्यैषमः०। पा० ५।३।२२। इति समान–द्यस् प्रत्ययो दिनार्थे, समानस्य सभावः। समानेऽहनि। सपदि। तत्क्षणे। तत्त्वज्ञानसमकालमेव। आयम्। इण् गतौ–लङ् उत्तमैकवचने गुणायादेशयोः अडागमः। अहं प्राप्तवानस्मि। उपातिष्ठे। उप+आ–तिष्ठे। उपेत्य स्थितोऽस्मि। नमस्करोमि। प्रथमजाम्। जनसनखनक्रमगमो विट्। पा० ३।२।६७। इति जनी प्रादुर्भावजननयोः–विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। इति आत्त्वम्। प्रथमं जनयतीति प्रथमजाः। सृष्टेः पूर्वं जनयितारम्, उत्पादकम्। ऋतस्य। ऋ गतौ–क्त। सत्यस्य। यथार्थज्ञानस्य। वेदविज्ञानस्य। वाचम्। क्विब् वचिप्रच्छिश्रिस्रुद्रुप्रुज्वां दीर्घोऽसंप्रसारणं च। उ० २।५७। इति वच कथने–क्विप्। दीर्घोऽसम्प्रसारणं च। वाणीम्। वाक्यम्। वक्तरि। वच कथने तृच्। उपदेशके। प्रयोक्तरि वर्तमानां वाचं श्रोतारो यथा प्रयोगसमकाले जानन्ति। भुवनेष्ठाः। भूसूधूभ्रस्जिभ्यश्छन्दसि। उ० २।८०। इति भू–क्युन्। भवन्त्यस्मिन् भूतानीति भुवनं जगत् ! आतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७४। इति भुवन+ष्ठा गति निवृत्तौ–विच्। तत्पुरुषे कृति बहुलम्। पा० ६।३।१४। इति सप्तम्या अलुक्। सर्वलोके परिपूर्णः परमात्मा। धास्युः। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति डुधाञ् धारणपोषणयोः–असुन्। छन्दसि। परेच्छायामपि। वा० पा० ३।१।८। इति धास् क्यच्। क्याच् छन्दसि। पा० ३।२।१७०। इति उ प्रत्ययः। धा धारणं पोषणं जगत इच्छतीति धास्युः सर्वपोषणेच्छुः। अग्निः। अ० १।६।२। सर्वव्यापकः सर्वज्ञः परमेश्वरः। अग्निवत् पोषकः ॥
इस भाष्य को एडिट करें