अथर्ववेद - काण्ड 2/ सूक्त 1/ मन्त्र 1
वे॒नस्तत्प॑श्यत्पर॒मं गुहा॒ यद्यत्र॒ विश्वं॒ भव॒त्येक॑रूपम्। इ॒दं पृश्नि॑रदुह॒ज्जाय॑मानाः स्व॒र्विदो॑ अ॒भ्य॑नूषत॒ व्राः ॥
स्वर सहित पद पाठवे॒न: । तत् । प॒श्य॒त् । प॒र॒मम् । गुहा॑ । यत् । यत्र॑ । विश्व॑म् । भव॑ति । एक॑ऽरूपम् । इ॒दम् । पृश्नि॑: । अ॒दु॒ह॒त् । जाय॑माना: । स्व॒:ऽविद॑: । अ॒भि । अ॒नू॒ष॒त॒ । व्रा: ॥ १.१॥
स्वर रहित मन्त्र
वेनस्तत्पश्यत्परमं गुहा यद्यत्र विश्वं भवत्येकरूपम्। इदं पृश्निरदुहज्जायमानाः स्वर्विदो अभ्यनूषत व्राः ॥
स्वर रहित पद पाठवेन: । तत् । पश्यत् । परमम् । गुहा । यत् । यत्र । विश्वम् । भवति । एकऽरूपम् । इदम् । पृश्नि: । अदुहत् । जायमाना: । स्व:ऽविद: । अभि । अनूषत । व्रा: ॥ १.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 1; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १–शब्दार्थव्याकरणादिप्रक्रिया–वेनः। धापॄवस्यज्यतिभ्यो नः। उ० ३।६। इति अज गतिक्षेपणयोः–न प्रत्ययः, वीभावः। यद्वा, वेनति कान्तिकर्मा, निघ० २।६। ततः। पुंसि सञ्ज्ञायां घः प्रायेण। पा० ३।३।११८। इति घ प्रत्ययः। वेनो वेनतेः कान्तिकर्मणः–इति यास्कः, निरु० १०।३८। गतिमान्। दीप्यमानः। मेधावी–निघ० २।१५। पश्यत्। इकारलोपः। पश्यति, साक्षात्करोति। परमम्। अ० १।१३।३। पर+मा माने–क। उत्कृष्टम्। गुहा। अ० १।८।४। गुहायाम्। गुप्तस्थाने। यत्र। यस्मिन् सर्वाधिष्ठाने ब्रह्मणि। विश्वम्। अ० १।१।१। सर्वं जगत्। एकरूपम्। इण्भीकापाशल्यतिमर्चिभ्यः कन्। उ० ३।४३। इति इण् गतौ–कन् एति प्राप्नोतीत्येकम्। रूयते कीर्त्यते तद्रूपम्। अ० १।१।१। सर्वथा, निरन्तरं व्याप्तम्। इदम्। इन्देः कमिन्नलोपश्च। उ० ४।१५७। इति इदि परमैश्वर्ये–कमिन्। नकारलोपः। इन्दति परमैश्वर्यहेतुर्भवतीति इदम्। प्रत्यक्षज्ञानम्। पृश्निः। घृणिपृश्निपार्ष्णि०। उ० ४।५२। इति स्पृश स्पर्शे–नि प्रत्ययः, सलोपः। स्पृशति, योगेन ब्रह्म प्राप्नोतीति पृश्निः। समाधिस्थयोगी पुरुषः। पृश्निरादित्यो भवति प्राश्नुत एनं वर्ण इति नैरुक्ताः संस्प्रष्टा रसान् संस्प्रष्टा भासं ज्योतिषां संस्पृष्टो भासेति वा–निरु० २।१४। इति यास्कवचनाद् योगैश्वर्येण सूर्यवत् प्रकाशमानः पुरुषः। अदुहत्। दुह प्रपूरणे–लुङ्, छान्दसो अङ्। आकृष्टवान्, प्राप्तवान्। द्विकर्मकत्वात् (इदम्) इति (जायमानाः) इति शब्दस्य च कर्मकत्वम्। जायमानाः। जनी जनने, प्रादुर्भावे–शानच्। उत्पद्यमानाः प्रजाः। स्वर्विदः। अन्येभ्योऽपि दृश्यन्ते। पा० ३।२।७५। इति स्वृ शब्दोपतापयोः–विच्। यद्वा सु+ऋ गतौ, ईर गतौ वा–विच्। स्वरादित्यो भवति। सु अरणः सु ईरणः स्वृतो रसान् स्वृतो भासं ज्योतिषां स्वृतो भासेति वा–निरु० २।१४। ततो विद ज्ञाने–क्विप्। स्वःशब्दाभिधेयं सुखस्वरूपम् आदित्यवर्णं वा परब्रह्म विदन्ति जानन्तीति स्वर्विदः परब्रह्मज्ञातारः। अभि। आभिमुख्येन, सर्वतः। अनूषत। णू स्तवने–लुङ्, छान्दसम् आत्मनेपदम्। स्तुतवन्तः। व्राः। गेहे कः। पा० ३।१।१४४। इति वृञ् वरणे–बाहुलकात् कः, यणादेशः, जस्। स्वशोभनगुणैर्व्रियमाणाः संभज्यमानाः स्वीक्रियमाणाः पुरुषाः। यद्वा। ब्रह्मणो वरितारो अन्वेष्टारः ॥
इस भाष्य को एडिट करें