Loading...
अथर्ववेद > काण्ड 2 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 14/ मन्त्र 3
    सूक्त - चातनः देवता - शालाग्निः छन्दः - अनुष्टुप् सूक्तम् - दस्युनाशन सूक्त

    अ॒सौ यो अ॑ध॒राद्गृ॒हस्तत्र॑ सन्त्वरा॒य्यः॑। तत्र॒ सेदि॒र्न्यु॑च्यतु॒ सर्वा॑श्च यातुधा॒न्यः॑ ॥

    स्वर सहित पद पाठ

    अ॒सौ । य: । अ॒ध॒रात् । गृ॒ह: । तत्र॑ । स॒न्तु॒ । अ॒रा॒य्य᳡: । तत्र॑ । से॒दि: । नि । उ॒च्य॒तु॒ । सर्वा॑: । च॒ । या॒तु॒ऽधा॒न्य᳡: ॥१४.३॥


    स्वर रहित मन्त्र

    असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः। तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः ॥

    स्वर रहित पद पाठ

    असौ । य: । अधरात् । गृह: । तत्र । सन्तु । अराय्य: । तत्र । सेदि: । नि । उच्यतु । सर्वा: । च । यातुऽधान्य: ॥१४.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 14; मन्त्र » 3

    टिप्पणीः - ३–अधरात्। अधस्–आति। अधोभागे। नीचस्थाने। गृहः। म० २। गेहम्। अराय्याः। रा दानग्रहणयोः–घञ्। आतो युक् चिण्कृतोः। पा० ७।३।३३। इति युग् आगमः। राति ददातीति रायो धनम्। न रायः, अरायः, अधनम्। केशाद्वोऽन्यतरस्याम्। पा० ५।२।१०९। इत्यत्र वार्त्तिकम्। छन्दसीवनिपौ च वक्तव्यौ। इति मत्वर्थीय ईकारः। अरायः, अधनं यस्याः सा अरायी। अलक्ष्म्यः। विपत्तयः। तत्र। अधोदेशे। सेदिः। आदृगमहनजनः किकिनौ लिट् च। पा० ३।२।१७१। इत्यत्र वार्त्तिकम्। किकिनावुत्सर्गश्छन्दसि सदादिभ्यो दर्शनात्। इति षद्लृ विशरणगत्यवसादनेषु–कि प्रत्ययः। तस्य लिड्वद्भावाद् द्विर्वचने एत्वाभ्यासलोपौ। निर्ऋतिः। विषादः। न्युच्यतु। उच समवाये दिवादिः। नित्यं समवैतु। सर्वाः। निखिलाः। यातुधान्यः। अ० १।७।१। यत ताडने–उण्+धाञ्–युच्, ङीप्। यातनाप्रदाः पीडादात्र्यः क्रियाः। (न्युच्यन्तु) इति शेषः ॥

    इस भाष्य को एडिट करें
    Top