Loading...
अथर्ववेद > काण्ड 2 > सूक्त 14

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 14/ मन्त्र 4
    सूक्त - चातनः देवता - शालाग्निः छन्दः - उपरिष्टाद्विराड्बृहती सूक्तम् - दस्युनाशन सूक्त

    भू॑त॒पति॒र्निर॑ज॒त्विन्द्र॑श्चे॒तः स॒दान्वाः॑। गृ॒हस्य॑ बु॒ध्न आसी॑नास्ता॒ इन्द्रो॒ वज्रे॒णाधि॑ तिष्ठतु ॥

    स्वर सहित पद पाठ

    भू॒त॒ऽपति॑: । नि: । अ॒ज॒तु॒ । इन्द्र॑: । च॒ । इ॒त: । स॒दान्वा॑: । गृ॒हस्य॑ । बु॒ध्ने । आसी॑ना: । ता: । इन्द्र॑: । वज्रे॑ण । अधि॑ । ति॒ष्ठतु॒ ॥१४.४॥


    स्वर रहित मन्त्र

    भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः। गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि तिष्ठतु ॥

    स्वर रहित पद पाठ

    भूतऽपति: । नि: । अजतु । इन्द्र: । च । इत: । सदान्वा: । गृहस्य । बुध्ने । आसीना: । ता: । इन्द्र: । वज्रेण । अधि । तिष्ठतु ॥१४.४॥

    अथर्ववेद - काण्ड » 2; सूक्त » 14; मन्त्र » 4

    टिप्पणीः - ४–भूतपतिः। भू सत्तायां प्राप्तौ च–कर्त्तरि क्त। भूतस्य न्यायस्य सत्यस्य वा, अथवा भूतानां प्राणिनां पालकः पुरुषः। निर्। निसार्य। अजतु। प्रेरयतु। बहिष्करोतु। इन्द्रः। अ० १।२।३। इदि परमैश्वर्ये–रन्। इन्दतेर्वैश्वर्यकर्मण इदञ्च्छत्रूणां दारयिता वा द्रावयिता वा दरयिता च यज्वानाम् निरु० १०।८। परमैश्वर्यवान् महात्मा। इतः। अस्मात् स्थानात्। सदान्वाः। म० १। सदा+नोनुवाः। आक्रोशकारिणीः, यद्वा। स+दानवाः, दानवैः सह वर्त्तमानाः पीडाः ॥

    इस भाष्य को एडिट करें
    Top