अथर्ववेद - काण्ड 2/ सूक्त 31/ मन्त्र 3
सूक्त - काण्वः
देवता - मही अथवा चन्द्रमाः
छन्दः - आर्षी त्रिष्टुप्
सूक्तम् - कृमिजम्भन सूक्त
अ॒ल्गण्डू॑न्हन्मि मह॒ता व॒धेन॑ दू॒ना अदू॑ना अर॒सा अ॑भूवन्। शि॒ष्टानशि॑ष्टा॒न्नि ति॑रामि वा॒चा यथा॒ क्रिमी॑णां॒ नकि॑रु॒च्छिषा॑तै ॥
स्वर सहित पद पाठअ॒ल्गण्डू॑न् । ह॒न्मि॒ । म॒ह॒ता । व॒धेन॑ । दू॒ना: । अदू॑ना: । अ॒र॒सा: । अ॒भू॒व॒न् । शि॒ष्टान् । अशि॑ष्टान् । नि । ति॒रा॒मि॒ । वा॒चा । यथा॑ । क्रिमी॑णाम् । नकि॑: । उ॒त्ऽशिषा॑तै ॥३१.३॥
स्वर रहित मन्त्र
अल्गण्डून्हन्मि महता वधेन दूना अदूना अरसा अभूवन्। शिष्टानशिष्टान्नि तिरामि वाचा यथा क्रिमीणां नकिरुच्छिषातै ॥
स्वर रहित पद पाठअल्गण्डून् । हन्मि । महता । वधेन । दूना: । अदूना: । अरसा: । अभूवन् । शिष्टान् । अशिष्टान् । नि । तिरामि । वाचा । यथा । क्रिमीणाम् । नकि: । उत्ऽशिषातै ॥३१.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 31; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३–अल्गण्डून्। म० २। उपधानेषु पूर्णान्। हन्मि। नष्टीकरोमि। महता। अ० १।१०।४। प्रभूतेन। वधेन। हनश्च वधः। पा० ३।३।७६। इति हन–अप्, वधादेशः। हननसाधनेन। प्रहारेण। दूनाः। ल्वादिभ्यः। पा० ८।२।४४। अत्र वार्त्तिकम्। दुग्वोर्दीर्घश्च। इति दु गतौ–क्त। अथवा। ओदितश्च। पा० ८।२।४५। इति ओदूङ् खेदे उपतापे–क्त। तस्य नः। खेदिताः। परितप्ताः। अदूनाः। अखेदिताः। अतप्ताः। अरसाः। शुष्काः। निर्बलाः। शिष्टान्। शिष असर्वोपयोगे–क्त। अवशिष्टान्। शेषान्। अशिष्टान्। शासु शासने–क्त। शास इदङ्हलोः। आ० ६।४।३४। इति इकारः। शासिवसिघसीनां च। पा० ८।३।६०। इति सस्य षः। शिष्टविरोधिनः। दुष्टान्। नि+तिरामि। निपूर्वस्तिरतिर्हिंसने। निहन्मि। वाचा। वचसा म० २। क्रिमीणाम्। कीटानां मध्ये। नकिः। न कश्चिदपि। उच्छिषातै। शिष्लृ विशेषणे लेटि आडागमः। छन्दसि आत्मनेपदम्। टेरेत्वे कृते। वैतोऽन्यत्र। पा० ३।३।९६। इति ऐत्वम्। उच्छिष्यात् ॥
इस भाष्य को एडिट करें