अथर्ववेद - काण्ड 2/ सूक्त 31/ मन्त्र 1
सूक्त - काण्वः
देवता - मही अथवा चन्द्रमाः
छन्दः - अनुष्टुप्
सूक्तम् - कृमिजम्भन सूक्त
इन्द्र॑स्य॒ या म॒ही दृ॒षत्क्रिमे॒र्विश्व॑स्य॒ तर्ह॑णी। तया॑ पिनष्मि॒ सं क्रिमी॑न्दृ॒षदा॒ खल्वाँ॑ इव ॥
स्वर सहित पद पाठइन्द्र॑स्य । या । म॒ही । दृ॒षत् । क्रिमे॑: । विश्व॑स्य । तर्ह॑णी । तया॑ । पि॒न॒ष्मि॒ । सम् । क्रिमी॑न् । दृ॒षदा॑ । खल्वा॑न्ऽइव ॥३१.१॥
स्वर रहित मन्त्र
इन्द्रस्य या मही दृषत्क्रिमेर्विश्वस्य तर्हणी। तया पिनष्मि सं क्रिमीन्दृषदा खल्वाँ इव ॥
स्वर रहित पद पाठइन्द्रस्य । या । मही । दृषत् । क्रिमे: । विश्वस्य । तर्हणी । तया । पिनष्मि । सम् । क्रिमीन् । दृषदा । खल्वान्ऽइव ॥३१.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 31; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १–इन्द्रस्य। परमैश्वर्यवतः परमात्मनः। मही। मह पूजायाम्–अच्। षिद्गौरादिभ्यश्च। पा० ४।१।४१। इति ङीष्। मह्यते मही। महती। विशाला। दृषत्। दृणातेः षुग्घ्रस्वश्च। उ० १।१३१। इति दृ विदारे–अदि प्रत्यये–धातोः षुग् ह्रस्वश्च। दीर्यते यया। शिला। क्रिमेः। क्रमितमिशतिस्तम्भामत इच्च। उ० ४।१२२। इति क्रमु पादविक्षेपे–इन्, कित्, अत इत्। कृमेः। क्षुद्रजन्तोः कीटस्य। विश्वस्य। सर्वस्य। प्रत्येकस्य। तर्हणी। तृह हिंसे–करणे ल्युट्। ङीप्। हन्त्री। पिनष्मि। पिष्लृ संचूर्णे। संचूर्णयामि। क्रिमीन्। कीटान्। दृषदा। शिलया। खल्वान्। सर्वनिघृष्व०। उ० १।१५३। इति खल संचये–वन्। चणकान्–इति सायणः ॥
इस भाष्य को एडिट करें