Loading...
अथर्ववेद > काण्ड 2 > सूक्त 32

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 32/ मन्त्र 6
    सूक्त - काण्वः देवता - आदित्यगणः छन्दः - चतुष्पान्निचृदुष्णिक् सूक्तम् - कृमिनाशक सूक्त

    प्र ते॑ शृणामि॒ शृङ्गे॒ याभ्यां॑ वितुदा॒यसि॑। भि॒नद्मि॑ ते कु॒षुम्भं॒ यस्ते॑ विष॒धानः॑ ॥

    स्वर सहित पद पाठ

    प्र । ते॒ । शृ॒णा॒मि॒ । शृङ्गे॒ इति॑ । याभ्या॑म् । वि॒ऽतु॒दा॒यसि॑ । भि॒नद्मि॑ । ते॒ । कु॒षुम्भ॑म् । य: । ते॒ । वि॒ष॒ऽधान॑: ॥३२.६॥


    स्वर रहित मन्त्र

    प्र ते शृणामि शृङ्गे याभ्यां वितुदायसि। भिनद्मि ते कुषुम्भं यस्ते विषधानः ॥

    स्वर रहित पद पाठ

    प्र । ते । शृणामि । शृङ्गे इति । याभ्याम् । विऽतुदायसि । भिनद्मि । ते । कुषुम्भम् । य: । ते । विषऽधान: ॥३२.६॥

    अथर्ववेद - काण्ड » 2; सूक्त » 32; मन्त्र » 6

    टिप्पणीः - ६–ते। तव। शृणामि। भिनद्मि। शृङ्गे। शृणातेर्हस्वश्च। उ० १।१२६। इति शॄ हिंसायाम्–गन्, धातोर्ह्रस्वत्वं कित्वं नुट् च प्रत्ययस्य। शृङ्गं श्रयतेर्वा शृणातेर्वा शम्नातेर्वा शरणायोद्गतमिति वा शिरसो निर्गतमिति वा–निरु० २।७। द्वे विषाणे। वि–तुदायसि। तुद व्यथने–शस्य शायजादेशः। विशेषेण तुदसि। व्यथयसे। भिनद्मि। भिदिर् विदारणे। विदारयामि। कुषुम्भम्। कुसेरुम्भोमेदेताः। उ० ४।१०६। इति कुष निष्कर्षे, वा, कुस श्लेषे–उम्भ प्रत्ययः। सकारषकारयोरेकत्वम्। कुसुम्भः=कमण्डलुः जलपात्रम्। शरीरे जलनाडीविशेषम्। विषधानः। करणाधिकरणयोश्च। पा० ३।३।११७। इति विष+डुधाञ् धारणपोषणयोः–अधिकरणे ल्युट्। विषं धीयतेऽत्र। विषस्थानम् ॥

    इस भाष्य को एडिट करें
    Top