अथर्ववेद - काण्ड 2/ सूक्त 32/ मन्त्र 5
सूक्त - काण्वः
देवता - आदित्यगणः
छन्दः - अनुष्टुप्
सूक्तम् - कृमिनाशक सूक्त
ह॒तासो॑ अस्य वे॒शसो॑ ह॒तासः॒ परि॑वेशसः। अथो॒ ये क्षु॑ल्ल॒का इ॑व॒ सर्वे॒ ते क्रिम॑यो ह॒ताः ॥
स्वर सहित पद पाठह॒तास॑: । अ॒स्य॒ । वे॒शस॑: । ह॒तास॑: । परि॑ऽवेशस: । अथो॒ इति॑ । ये । क्षु॒ल्ल॒का:ऽइ॑व । सर्वे॑ । ते । क्रिम॑य: । ह॒ता: ॥३२.५॥
स्वर रहित मन्त्र
हतासो अस्य वेशसो हतासः परिवेशसः। अथो ये क्षुल्लका इव सर्वे ते क्रिमयो हताः ॥
स्वर रहित पद पाठहतास: । अस्य । वेशस: । हतास: । परिऽवेशस: । अथो इति । ये । क्षुल्लका:ऽइव । सर्वे । ते । क्रिमय: । हता: ॥३२.५॥
अथर्ववेद - काण्ड » 2; सूक्त » 32; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५–हतासः। असुक् आगमः। हताः। वेशसः। मिथुनेऽसिः। उ० ४।२२३। इति बाहुलकाद् अमिथुनेऽपि। विश–असि प्रत्ययः। प्रवेशकाः। मुख्यसेवकाः। परिवेशसः। परितः स्थिताः। अनुचराः। अथो। अपि च क्षुल्लकाः। क्षुद्+लकाः। क्षुद्रि संपेषणे–क्विप्+लक आस्वादे, प्राप्तौ–अच्। तोर्लि। पा० ८।४।६०। इति परसवर्णः। क्षुदं क्षुद्रत्वं लाकयन्ति प्राप्नुवन्ति ते क्षुल्लकाः। सूक्ष्माकाराः क्षुद्रजन्तवः। अन्यद् व्याख्यातम् ॥
इस भाष्य को एडिट करें