अथर्ववेद - काण्ड 2/ सूक्त 32/ मन्त्र 1
सूक्त - काण्वः
देवता - आदित्यगणः
छन्दः - त्रिपाद्भुरिग्गायत्री
सूक्तम् - कृमिनाशक सूक्त
उ॒द्यन्ना॑दि॒त्यः क्रिमी॑न्हन्तु नि॒म्रोच॑न्हन्तु र॒श्मिभिः॑। ये अ॒न्तः क्रिम॑यो॒ गवि॑ ॥
स्वर सहित पद पाठउ॒त्ऽयन् । आ॒दि॒त्य: । क्रिमी॑न् । ह॒न्तु॒ । नि॒ऽम्रोच॑न् । ह॒न्तु॒ । र॒श्मिऽभि॑: । ये । अ॒न्त: । क्रिम॑य: । गवि॑ ॥३२.१॥
स्वर रहित मन्त्र
उद्यन्नादित्यः क्रिमीन्हन्तु निम्रोचन्हन्तु रश्मिभिः। ये अन्तः क्रिमयो गवि ॥
स्वर रहित पद पाठउत्ऽयन् । आदित्य: । क्रिमीन् । हन्तु । निऽम्रोचन् । हन्तु । रश्मिऽभि: । ये । अन्त: । क्रिमय: । गवि ॥३२.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 32; मन्त्र » 1
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - टिप्पणी–इस सूक्त और ३३ वें सूक्त का मिलान अथर्ववेद का० ५ सू० २३। से करें ॥ १–उद्यन्। उत्+इण् गतौ–शतृ। उदयं प्राप्नुवन्। आदित्यः। अ० १।९।१। आङ्+दीपी दीप्तौ–यक् प्रत्ययान्तो निपातितः। आदीप्यमानः सूर्यः। क्रिमीन्। अ० २।३१।१। क्षद्रजन्तून्। हन्तु। नाशयतु। निम्रोचन्। नि+म्रुचु गतौ–शतृ। अस्तं गच्छन्। रश्मिभिः। अश्नोते रश च। उ० ४।४६। इति अशू व्याप्तौ–मि, धातो रशादेशश्च। किरणैः। अन्तः। मध्ये। क्रिमयः। क्रमणशीलाः क्षुद्रजन्तवः। गवि। गमेर्डोः। उ० २।६७। इति गम्लृ गतौ–डो। गौरिति पृथिव्या नामधेयं यद् दूरङ्गता भवति यच्चास्यां भूतानि गच्छन्ति गातेर्वौकारो नामकरणः–निरु० २।५। पृथिव्याम् इन्द्रिये वा ॥
इस भाष्य को एडिट करें