अथर्ववेद - काण्ड 2/ सूक्त 35/ मन्त्र 3
सूक्त - अङ्गिराः
देवता - विश्वकर्मा
छन्दः - त्रिष्टुप्
सूक्तम् - विश्वकर्मा सूक्त
अ॑दा॒न्यान्त्सो॑म॒पान्मन्य॑मानो य॒ज्ञस्य॑ वि॒द्वान्त्स॑म॒ये न धीरः॑। यदेन॑श्चकृ॒वान्ब॒द्ध ए॒ष तं वि॑श्वकर्म॒न्प्र मु॑ञ्चा स्व॒स्तये॑ ॥
स्वर सहित पद पाठअ॒दा॒न्यान् । सो॒म॒ऽपान् । मन्य॑मान: । य॒ज्ञस्य॑ । वि॒द्वान् । स॒म्ऽअ॒ये । न । धीर॑: । यत् । एन॑: । च॒कृ॒वान् । ब॒ध्द: । ए॒ष: । तम् । वि॒श्व॒क॒र्म॒न् । प्र । मु॒ञ्च । स्वस्तये॑ ॥३५.३॥
स्वर रहित मन्त्र
अदान्यान्त्सोमपान्मन्यमानो यज्ञस्य विद्वान्त्समये न धीरः। यदेनश्चकृवान्बद्ध एष तं विश्वकर्मन्प्र मुञ्चा स्वस्तये ॥
स्वर रहित पद पाठअदान्यान् । सोमऽपान् । मन्यमान: । यज्ञस्य । विद्वान् । सम्ऽअये । न । धीर: । यत् । एन: । चकृवान् । बध्द: । एष: । तम् । विश्वकर्मन् । प्र । मुञ्च । स्वस्तये ॥३५.३॥
अथर्ववेद - काण्ड » 2; सूक्त » 35; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३–अदान्यान्। छन्दसि च। पा० ५।१।६७। इति अदान–य प्रत्ययः। दानानर्हान्। सोमपान्। गापोष्टक् च। पा० ३।२।८। सोम+पा पाने–टक्। अमृतपानशीलान् पण्डितान्। मन्यमानः। मन बोधे दिवादिः–शानच्। जानन् सन्। यज्ञस्य। अ० १।९।४। प्रशस्यकर्मणः। विद्वान्। विदेः शतुर्वसुः। पा० ७।१।३६। इति विद ज्ञाने–शतृ, वसुरादेशः प्राज्ञः। पण्डितः। समये। सम्+इण् गतौ–पचाद्यच्। उचितकाले, अवसरे। न। निषिधे। धीरः। सुसूधाञ्गृधिभ्यः क्रन्। उ० २।२४। इति धाञ् धारणपोषणयोः–क्रन्। घुमास्थागापा०। पा० ६।४।६६। इति ईत्वम्। यद्वा। धीः प्रज्ञा कर्म वा, रो मत्वर्थीयः। यद्वा। कर्मण्यण्। पा० ३।२।१। इति धी+ईर प्रेरणे–अण्। धियम् ईरयतीति। यद्वा। धी+रा–क। धियं राति ददाति गृह्णातीति वा। मेधावी–निघ० ३।१५। धैर्यवान्। पण्डितः। एनः। म० २। अपराधम्। चकृवान्। कृञ्–लिटः क्वसुः। कृतवान्। बद्धः। बध्यते स्म। बन्ध–क्त। बन्धनयुक्तः। विश्वकर्मन्। हे सर्वकृत्। प्र+मुञ्च। प्रमोचय। स्वस्तये। अ० १।३०।२। क्षेमाय। कुशलाय ॥
इस भाष्य को एडिट करें