Loading...
अथर्ववेद > काण्ड 2 > सूक्त 35

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 35/ मन्त्र 5
    सूक्त - अङ्गिराः देवता - विश्वकर्मा छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - विश्वकर्मा सूक्त

    य॒ज्ञस्य॒ चक्षुः॒ प्रभृ॑ति॒र्मुखं॑ च वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि। इ॒मं य॒ज्ञं वित॑तं वि॒श्वक॑र्म॒णा दे॒वा य॑न्तु सुमन॒स्यमा॑नाः ॥

    स्वर सहित पद पाठ

    य॒ज्ञस्य॑ । चक्षु: । प्रऽभृ॑ति: । मुख॑म् । च॒ । वा॒चा । श्रोत्रे॑ण । मन॑सा । जु॒हो॒मि॒ । इ॒मम् । य॒ज्ञम् । विऽत॑तम् । वि॒श्वऽक॑र्मणा । आ । दे॒वा: । य॒न्तु॒ । सु॒ऽम॒न॒स्यमा॑ना: ॥३५.५॥


    स्वर रहित मन्त्र

    यज्ञस्य चक्षुः प्रभृतिर्मुखं च वाचा श्रोत्रेण मनसा जुहोमि। इमं यज्ञं विततं विश्वकर्मणा देवा यन्तु सुमनस्यमानाः ॥

    स्वर रहित पद पाठ

    यज्ञस्य । चक्षु: । प्रऽभृति: । मुखम् । च । वाचा । श्रोत्रेण । मनसा । जुहोमि । इमम् । यज्ञम् । विऽततम् । विश्वऽकर्मणा । आ । देवा: । यन्तु । सुऽमनस्यमाना: ॥३५.५॥

    अथर्ववेद - काण्ड » 2; सूक्त » 35; मन्त्र » 5

    टिप्पणीः - ५–यज्ञस्य। म० ३। पूजनीयकर्मणः। चक्षुः। म० ४। नेत्रवत् प्रदर्शको यः पुरुषोऽस्ति। प्रभृतिः। डभृञ् भरणपोषणयोः–क्तिन्। भरणम्। पोषणम् मुखम्। डित् खनेर्मुट् चोदात्तः। उ० ५।२०। इति खन विदारणे–अच्। स च डित्, धातोर्मुडागमश्च। तस्योदात्तः। खनति अन्नादिकमनेनेति। आस्यम्। मुखमिव मुख्यः। वाचा। अ० १।१।१। वाण्या। पठनपाठनकर्मणा। श्रोत्रेण। अ० २।१७।५। श्रुत्या। कर्णेन। श्रवणश्रावणकर्मणा। मनसा। मननेन। अन्तःकरणेन। निदिध्यासनेन। जुहोमि। अ० १।१५।१। आददे। स्वीकरोमि तम्। विततम्। तनु विस्तारे–क्त। विस्तृतम्। विश्वकर्मणा। परमात्मना। देवाः। व्यवहारकुशलाः। महात्मानः। यन्तु। प्राप्नुवन्तु। सुमनस्यमानाः। अ० १।३५।१। शोभनं ध्यायन्तः। शुभचिन्तकाः ॥

    इस भाष्य को एडिट करें
    Top